हिङ्गलाजभवानीशक्तिपीठम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Hindu temple

हिंजलगढ़-क्षेत्रस्य हिङ्गलाजमाता

हिंगलाजदेवीमन्दिरं, पाकिस्थानस्य बलुचिस्तान-प्रान्ते, सिन्धराज्यस्य राजधानीतः कराची-तः १२० कि॰मी॰ उत्तर-पश्चिमभागे हिङ्गोल-नद्याः तटे ल्यारी-उपमण्डलस्य मकराना-तटीय-क्षेत्रे हिङ्गलाज-नामके पत्तने स्थितमस्ति। एतत् एकादशशक्तिपीठेषु मन्यते।सती-देव्याः शवस्य भगवतः विष्णोः सुदर्शनचक्रेण विभाजने कृते सति अत्र तस्याः ब्रह्मरंध्रं (शिरः) अपतत् इति।[१]

इतिहासः

लोकगाथानुसारं चारण-जातीयानां प्रथमकुलदेवी हिङ्गलाजदेवी आसीत्, यस्याः निवासस्थानं पाकिस्थानस्य बलुचिस्थान-प्रान्ते  आसीत्। हिङ्गलाज-नाम्नः अतिरिक्तं हिङ्गलाजदेव्याः चरित्रविषये उत इतिहासविषये सूचना स्वल्पा एव। हिङ्गलाजदेव्याः सम्बद्धानि लोगगीतिना उपलभ्यन्ते। प्रसिद्धिरस्ति यत्, सप्तसु द्वीपेषु सर्वाः शक्तयः रात्रौ रास-नृत्यं कुर्वन्ति इति। प्रातःकाले च ताः सर्वाः शक्तयः भगवत्याः हिङ्गलाजदेव्याः गिरौ एकत्रीताः भवन्ति-

सातो द्वीप शक्ति सब रात को रचात रास।
प्रात:आप तिहु मात हिंगलाज गिर में॥

एषा देवी सूर्यात् अपि तेजस्विनी स्वेच्छया अवतारं धारयति। एषा आदिशक्तिः अष्टमशताब्द्यां सिन्धप्रान्ते मम्मटस्य(मामड़) गृहे आवड-देव्याः स्वरूपे द्वितीयावतारम् अधारयत्। ताः सप्त भगन्यः आसन् - आवड, गुलो, हुली, रेप्यली, आछो, चंचिक, लध्वी च। ताः सर्वाः परमसुन्दर्यः आसन्। मन्यते यत्, तासां सुन्दरतायां सिन्धप्रदेशीयः यवनराजः हमीर सुमरा इति मुग्धः आसीत्। अत एव सः स्वस्य विवाहप्रस्तावं प्रैषयत्। परन्तु तासां पिता विवाहप्रस्तावं नाङ्ग्यकरोत्।अतः यवनराजः तस्मै कारावासस्य दण्डम् अयच्छत्। अतः ताः षड्देव्याः सिन्धप्रदेशात् तेमडा-पर्वतम् अगच्छन्। ताः एका काठियावाड-प्रदेशस्य दक्षिण-पर्वतीय-प्रदेशे 'तान्तणियादरा'-नामकस्य उपसरस्य पार्श्वे न्यवसत्।एषा भावनगरस्य कुलदेवी मन्यते। समस्ते काठियावाड-प्रदेशे तस्याः पूजा भवति। यदा आवडदेवी  तेमडा-पर्वते स्वनिवासस्थानम् अरचयत्, तदा दर्शनार्थम् अनेके चारण-जनाः गच्छन्ति स्म। निरन्तरं दर्शनार्थं समागच्छन्तः दर्शनार्थिनः शनैः शनैः राजस्थाने एव निवासस्थानम् अरचयन्। आवडदेवी तेमडा-नामकस्य राक्षसस्य वधम् अकरोत्, अतः तस्याः नाम तेमडेश्वरी इत्यपि प्रसिद्धम्। आवडदेव्याः मुख्यं स्थानं जैसलमेर-तः विंशतिः मील-दूरे काचित् गिरिका वर्तते। पञ्चदश्यां शताब्द्यां राजस्थानस्य अनेकेषु लघुराज्येषु विभक्तम् आसीत्। जनपदाधिपतिषु परस्परं सङ्घर्षः, उत्पातः च भवति स्म। सामान्यजनेषु त्राहि त्राहि आसीत्। तस्य कष्टस्य  निवारणार्थमेव महाशक्तिः हिङ्गलाजदेवी सुआप-ग्रामस्य  मेहाजी-नामकस्य चारण-जनीयस्य धर्मपत्न्याः देवलदेव्याः गर्भात् श्रीकरणीदेव्याः रूपेण अवतारम् अगृह्णात्।

सन्दर्भः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः