हस्ता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते हस्तानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् हस्तानक्षत्रं भवति द्वादशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

हस्तानक्षत्रम्

आकृतिः

हस्ता पाणिनां पञ्च - हस्तस्य अङ्गुलीनाम् आकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि

पू षं णा था - हस्तानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

आयातु देवः सविता हिरण्मयेन सुवृत्ता रथेन वहन् ।
हस्तं सुभगं प्रयच्छन्तं प्नपुरिं पुष्यम् ।
हस्तः प्रयच्छत्वमृतं वसीयः दक्षिणेन प्रतिगृभ्णीम् एनत् दातारमद्य सविता विदेय ॥

वेदे हस्तानक्षत्रस्य अधिपतिः सूर्यः इति निर्दिष्टः अस्ति । हस्तो नक्षत्रं सविता देवता । तैत्तिरीयब्राह्मणस्य अनुसारं सूर्यदेवः सुवर्णरथम् आरुह्य इच्छापूर्वकम् इष्टफलदायकेन सौभाग्ययुक्तेन हस्तानक्षत्रेण सह आगच्छन् अस्ति । वयं तं दातारं सर्वदा प्राप्नुमः । सः अस्मभ्यम् अमृतं ददातु । वयं दक्षिणहस्तेन तत् स्वीकुर्मः ।

आश्रिताः पदार्थाः

हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि ।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥

तस्करश्चोराः । कुञ्जरा हस्तिनः । रथिका रथेन गन्त्र्यादिना ये गच्छन्ति । महामात्रा हस्तिसाधनपतयः । शिल्पिनश्चित्रकारप्रभृतयः । पण्यं यत्किञ्चिद्विक्रयद्रव्यम् । तुषधान्यं शालयः । श्रुतयुक्ताः श्रुताभिनिरताः । वणिजः क्रयविक्रयनिरताः । तेजोयुतास्तेजस्विनः । अत्रास्मिन् हस्ते सर्व एवैते ।

स्वरूपम्

भेषजपात्रविद्याविवाहशिल्पव्रतांवराभरणम् ।
सुरसंस्थापनमखिलं वास्तुप्रारम्भमर्कनक्षत्रे ॥

हस्तानक्षत्रे औषधम्, अभिनयः, विद्या, विवाहः, शिल्पकर्म, व्रतम्, वस्त्रम्, आभूषणम्, देवप्रतिष्ठा, वास्तुकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

लघुसंज्ञकनक्षत्राणि

लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु ।
शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥

अथ क्षिप्राणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -
हस्तः प्रसिद्धः । आश्विनमश्विनी । पुष्यस्तिष्यः । केचिदभिजिदत्रेच्छन्ति । एतन्नक्षत्रत्रयं चतुष्टयं वा लघु क्षिप्रमित्यर्थः । एतानि पण्ये विक्रये । रतौ पुंरतौ । ज्ञाने शास्त्रारम्भे । भूषणे अलङ्करणे । कलासु चित्रगीतवाद्यनृत्यादिषु । शिल्पकर्मणि तक्षककर्मलोहकारकर्मादौ । औषधे द्रव्यप्रयोगे । याने यात्रायाम् । आदिग्रहणादृणग्रहणे धनप्रयोगे च । एतेषु कार्येषु सिद्धिकराण्युक्तानि ।

पश्य

"https://sa.bharatpedia.org/index.php?title=हस्ता&oldid=9133" इत्यस्माद् प्रतिप्राप्तम्