हरिप्रसाद चौरासिया

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
हरिप्रसाद चौरासिया सङ्गीतगोष्ठ्याम्

पण्डित हरिप्रसाद् चौरासिया ( जननम् - जुलै १, १९३८, अलहाबाद ) हिन्दुस्थानिशास्त्रीयसङगीते अन्ताराष्ट्रियख्यातिं बासुरिवादने प्राप्तवान् । बासुरि इत्युक्ते वंशिवाद्ये विशेषः । चौरासिया शास्त्रीयसङ्गीतज्ञः चेदपि स्वकीय विशिष्टवादनशैल्या अन्यानपि जनान् विदेशीयानपि शास्त्रीयसङ्गीतदिशि आकृष्टवान् ।

पृष्ठभूमिका

हरिप्रसाद् चौरासियस्य जननं मल्लयुध्दकुशलानां वंशे जातम् । एतस्य पिता मल्लयुध्दपटुः आसीत् । बाल्ये वयसि एव माता दिवङ्गता । पितुः आशा आसीत् हरिप्रसादः मल्लयुध्दपटुः भवतु इति । परन्तु हरिप्रसादस्य सङ्गीते इच्छा । तदर्थं गुप्तरूपेण सङगीताध्ययनम् आरब्धवान् । सङ्गीताध्ययनं कुर्वन् प्रतिदिनं मल्लयुध्दकुशालां गत्वा विविधकलाः ज्ञातवान् । तदनन्तरं समानकाले सङ्गीतं पठित्वा मित्रस्य गृहे अभ्यासं कृतवान् । मल्लयुध्दकलाभ्यासेन तस्य देहदृढता प्राप्ता । श्वासकोशस्यापि बलमागतमिति कारणतः अद्यापि बहुकालपर्यन्तं वंशिवाद्यं वादयितुं शक्तोऽस्मीति चौरासियः वदति ।

शिक्षणं मार्गदर्शनञ्च

एषः १५ वयसि पर्श्वगृहस्य पण्डितराजारामस्य समीपे गानस्य अभ्यासम् आरब्धवान् । अनन्तरं वारणसीमध्ये पण्डितबालनाथसमीपे वंशिवादनस्य अभ्यासम् आरब्धवान् । बहुवर्षानन्तरं आकाशवाण्यां कार्यं कुर्वत्याः अन्नपूर्णायाः समीपे अन्नताभ्यासं कृतवान् । अन्नपूर्णादेवी तु बाबा अल्लावुध्दीन खानस्य पुत्री । हरिप्रसादः १९ वयसि ओरिस्सा रज्यस्य कटकमध्ये आकाशवाण्यां वंशिवादको भूत्वा वृत्तिमारब्धवान् । पञ्चवर्षानन्तरं एतस्य मुम्बयिनगराय स्थानान्तरणम् अभवत् । भारतस्य कलानगरं मुम्बयि । अत्र अन्नपूर्णादेव्याः मार्गदर्शनमपि प्राप्तम् । अत्र महानगरे वंशिवादनस्य प्रदर्शनेन सह अपरस्य सङगीतप्रपञ्चस्य अनावरणमपि अभवत् ।

हरिप्रसाद चौरासिया

सङगीतशैली

मुम्बयीनगरे एव सम्प्रदायस्य आधारस्य उपरि स्वकल्पनामपि योजयित्वा स्वकीयां नूतनशैलीम् आरब्धवान् । स्वस्य सङ्गीतस्य प्रकारण प्रतिभायाः उच्छ्रायस्थितिं प्राप्तवान् । एषः स्वकीयवंशिवादनशैल्यां द्रुपदशैल्याः अंशानपि मेलितवान् । अतः एतस्य आलापः दीर्घः गम्भीरः विशिष्टः च भवति । स्वजीवने प्रपञ्चस्य बहुषु देशेषु सङ्गीतकार्यक्रमान् सञ्चालितवान् । एषः भारतस्य अग्रगण्यशास्त्रीयसङ्गीतज्ञः अस्ति । २००० तमे वर्षे पद्मविभूषणप्रशस्तिः एतस्मै गौरवपूर्वकं दत्ता । चलनचित्रसङ्गीतम् - एषः साम्प्रदायिकहिन्दुस्थानिसङ्गीतज्ञः केवलं न हिन्दिचलनचित्रस्य निर्देशकः अपि । पण्डितेन शिवशङ्करशर्मणा सह मिलित्वा " शिवहरिः " इत्यस्य हिन्दिचलनचित्रस्य सङ्गीतनिर्देशनमपि कृतवान् । एतेन सङ्गीतनिर्देशनम् अन्येषामपि केषाञ्चित् चलनचित्राणां कृतमस्ति । तेषां नामानि लम्हे, चान्दनी, सिल्सिला, डर्, फासले इति ।

जुगलबन्दि सङ्गीतसहयोगश्च

हरिप्रसादस्य वंशिवादनम्, पण्डितस्य शिवकुमारशर्मणः सन्तूसन्तूरद्वन्द्ववादनम् सङ्गीतरसिकानां मनः बह्वाकर्षत् । एतौ द्वौ मिलित्वा अनेकान् सङ्गीतकार्यक्रमान् दत्तवन्तौ । अन्यच्य एतौ द्वौ मिलित्वा अनेकध्वनिमुद्रिकाः अपि प्रकाशितवन्तौ ।

बाह्यसम्पर्कतन्तुः

फलकम्:भारतस्य शास्त्रीसङ्गीतकाराः

"https://sa.bharatpedia.org/index.php?title=हरिप्रसाद_चौरासिया&oldid=9132" इत्यस्माद् प्रतिप्राप्तम्