हरिदासाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


हरिदासाः (Haridasa) नाम हरेः दासाः। हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । भारतस्य दक्षिणे विद्यमाने कर्णाटकराज्ये काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भक्तिमार्गस्य प्रवर्तकाः इति एव ख्याताः । एतत् हरिदासभक्ताः अन्दोलनेन भारतस्य सांस्कृतिकेतिहासस्य श्रेष्ठं परिवर्तनम् आनीतवन्तः । ६शतककाले सन्तः योगिनः विशेषतः दक्षिणभारते संस्कारस्य प्राचीनतत्त्वस्य कलायाः च निरूपणे अधिकं सहाय्यं समाचरन् । एते हरिदासाः दक्षिणभारतस्य राज्यानि प्रशसितानां शसने अपि प्रभावं कृतवन्तः । [१] अयं हरिदासपथः १३-१४तमशतकेषु आन्दोलनस्य रूपम् अवाप्नोत् । तदा कर्णाटके विजयनगरसाम्राज्यस्य प्रशासनस्य ऊर्जितः कालः । अस्य आन्दोलनस्य प्रधानः उद्देशः मध्वाचार्यस्य तत्त्वशास्त्रं सामान्यजनेषु दाससाहित्यरूपेण प्रसरणम् । [२] श्रीपादरायः व्यासतीर्थः पुरन्दरदासः कनकदासः इत्यादयः प्रमुखाः हिन्दुधर्मस्य तत्त्वज्ञानिनः, कवयः, विद्वासः महत्तमं पात्रम् निरवहन् । [२] आन्दोलनमेतत् कर्णाटकराज्ये आरब्धं दक्षिणभारतस्य अन्यराज्येषु अपि विकीर्णं चेदपि क्रि.श.१२शतके बसवण्णः इत्यादिभिः आरब्धस्य वीरशैवान्दोलनस्य, क्रि.श.दशमशतकस्य तमिळुनाडुराज्यस्य आळ्वार् सताम् आन्दोलनस्य च फलम् एव । [३][४] अग्रे वल्लभाचार्यः गुरुः चैतन्य मध्वाचार्यः इत्यादीनां बोधनैः प्रभाविताः जनाः । तस्य भक्ताः विश्वे सर्वत्र इस्कान्(ISKCON) हरिभक्त्यान्दोलनम् आरब्धम् । [५] हरिदाससन्तः अधिकाः परिव्राजः गायकाः च भवन्ति स्म । इदमान्दोलनं ब्राह्मणैः एव आरब्धा चेदपि समाजस्य सर्ववर्गीयानं योगदानम् अत्र अस्ति । .[६] कन्नडभक्तिसाहित्यक्षेत्रे हरिदासान्दोलनस्य योगदानं तु अपरिमितम् अस्ति ।[७]

आरम्भः

हरिदासान्दोलनस्य मूलं समीचीनतया निश्चेतुं नैव शक्यते । क्रि.श.नवमशतके अस्य आन्दोलनस्य आरम्भः इति केचन वदन्ति । किन्तु क्रि.श.त्रयोदशशतके उडुपीक्षेत्रे मध्वाचार्यस्य आश्रयेण (क्रि.श.१२२८तः क्रि.श.१३१७पर्यन्तम्) दासकूटः इति नाम्ना वैष्णवान्दोलनं कर्णाटाकराज्ये समाराभत । [३] अस्मिन् कालखण्डे आन्दोलनमेतत् प्रबला धार्मिकी शक्तिः अभवत् । अनेन दक्षिणभारते हैन्दवभावः नवचैतन्ययुक्तः अभवत् । तदानीमेव उत्तरभारतं मुसल्मानविप्लवकारिभिः आक्रान्तम् आसीत् । हरिदासपरम्परा विजयनगरसाम्राज्येन पोषिता ।[८]व्यासतीर्थः कृष्णदेवरायस्य गुरुः इति प्रतीतिः अस्ति ।[९][१०][११] हरिदासाः हिन्दुधर्मस्य वैष्णवभक्ताः विष्णोः अवतारस्य विठ्ठलस्य श्रीकृष्णस्य च पूजां कुर्वन्ति स्म । [१२] हरिदासानां महाराष्ट्रस्य पण्डरपुरस्य भीमानद्याः तीरस्य विठ्ठलस्य मन्दिरम्, कर्णाटकस्य हम्पीमध्ये विद्यमानः विठ्ठलस्वामिनः देवालयः अपि च आन्ध्रप्रदेशराज्यस्य तिरुमलस्य श्रीनिवासदेवालयः अतिपवित्रस्थानानि भवन्ति ।

बोधकाः

हरिदासाः सामान्यतः कर्णाटकीयाः आसन् । जयतीर्थाचार्यः केवलं महाराष्ट्रस्य पण्डरपुरस्य समीपे विद्यमानस्य मङ्गळ्वेधे स्थानीयः आसीत्,[१३] अपि च श्री नरहरितीर्थः इति दासः मध्वाचार्यस्य भक्तः आन्ध्रप्रदेशस्य दासः आसीत् । [१४]

विजयनगरसाम्राज्यकालस्य प्रसिद्धाः हरिदासाः

प्रसिद्धिः

हरिदासान्दोलने श्रीपादरायः व्यासतीर्थः वादिराजः इति त्रीन् दासान् यतित्रयः इत्येव कथयन्ति स्म । किन्तु वैष्णवत्रिमूर्तयः इत्युक्ते श्रीपादराजः , पुरन्दरदासः, कनकदासः च इति ख्यतिः । .[१५]

कन्नडसाहित्ये योगदानम्

हरिदासान्दोलनेन तु कन्नडसाहित्यक्षेत्राय महत् योगदानम् कृतम् । भक्तिपथेन जातं साहित्यं दाससाहित्यम् अथवा दासरपदगळु (दासानां पद्यानि) इति कथयन्ति । जगन्नाथदासः , विजयदासः, गोपालदासः च कन्नडसाहित्यसमृद्धिं कृतवन्तः अन्यदासकवयः सन्ति ।[१६][१७]

  • एतेषां लेखनानि त्रिधा विभक्तुं शक्यते ।
  • काव्यम् ।
  • तत्त्वम् ।
  • सार्वत्रिकरूपम् ।

पद्याङ्कितनामानि

प्रत्येकं हरिदासः स्वस्य कीर्तनेषु अथवा पद्येषु स्वस्य काव्याङ्कितं लिखति स्म । केषाञ्चन प्रसिद्धहरिदासानां काव्याङ्कितनामानि एवं सन्ति । [१८]

कर्णाटकसङ्गीताय योगदानम्

हरिदासान्दोलनेन कर्णाटकसङ्गीतक्षेत्रं हिन्दुस्तानीसङ्गीतात् पृथक् संवर्धितम् । अनेन भारतीयसङ्गीतक्षेत्रे नूतनस्य शास्त्रीयसङ्गीतस्य उदयः अभवत् । अतः पुरन्दरदासं कर्णाटकसङ्गीतस्य पितामहः इति ख्यतिः अस्ति । [१९][२०][२१] तस्य कृतिषु पदगळू कृतिः, उगाभोगः, सुळदिः, व्रुत्तनाम, दण्डकः, त्रिपदिः, षट्पदिः, साङ्गत्यम् इति भेदाः सन्ति ।[२२] ಹಾಗು ರಗಳೆ .

बाह्यानुबन्धाः

फलकम्:Reflist

उल्लेखाः

  1. Sharma (1961), p514
  2. २.० २.१ Kamath (2001), p155
  3. ३.० ३.१ फलकम्:Cite web
  4. Krishna Rao M.V. Dr. in फलकम्:Cite web
  5. Kamath (2001), p156
  6. According to some accounts, Kanakaದಾಸ came from a family of hunters (beda ) ಹಾಗು from other accounts, from a family of Shepherds (kuruba ) (Sastri 1955, p365)
  7. Sastri (1955), p381
  8. Kamath (2001), p178
  9. फलकम्:Cite web
  10. Krishnadevaraya was highly devoted to व्यासतीर्थः (Kamath 2001), p178)
  11. व्यासतीर्थः was highly honoured by King Krishnadevaraya (Nilakanta Sastri 1955, p324)
  12. फलकम्:Cite web
  13. फलकम्:Cite web
  14. फलकम्:Cite web
  15. फलकम्:Cite web
  16. फलकम्:Cite web
  17. फलकम्:Cite web
  18. फलकम्:Cite web
  19. Owing to his contributions to ಕರ್ನಾಟಕ ಸಂಗೀತ, ಪುರಂದರದಾಸ is known as Karnataka Sangita Pitamaha फलकम्:Cite web
  20. फलकम्:Cite web
  21. फलकम्:Cite web
  22. Sangatya composition is meant to be sung to the accompaniment of a Sangeetal instrument (Sastri 1955, p359)
"https://sa.bharatpedia.org/index.php?title=हरिदासाः&oldid=4818" इत्यस्माद् प्रतिप्राप्तम्