हनुमानप्रसाद पोद्दार

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:तलं गच्छतु

हनुमानप्रसाद पोद्दार(फलकम्:Lang-hi, फलकम्:Lang-en )इत्ययम् गीता, वेदाः, पुराणानि, उपनिषदः, रामायणं, महाभारतादीनि धार्मिकपुस्तकानि ग्रामं ग्रामं प्रापयितुं कार्यरतः आसीत् । तं ‘गीता प्रेस गोरखपुर’ इति प्रकाशनं को वा न जानाति ? । अस्य प्रकाशनस्य मुख्यसूत्रधारत्वेन हनुमानप्रसाद पोद्दार इत्ययम् आसीत् ।[१] अनेन ‘कल्याण’ इति सामयिकमाध्यमेन धार्मिके, आध्यात्मिकपत्रकारक्षेत्रे च महत्वपूर्णं योगदानं प्रदत्तम् । तस्मिन् अपि महत्मना सूचिताः नियमाः सिद्धान्तत्वेन पालिताः । अद्यापि अस्य प्रकाशनस्य पुस्तकानि न्यूनेन मूल्येन प्राप्नुमः इत्यत्र हनुमानप्रसाद पोद्दार इत्यस्य महत्वपूर्णं योगदानम् अस्ति ।

जन्म, परिवारश्च

हनुमानप्रसादस्य जन्म १८९२ तमस्य वर्षस्य सितम्बर-मासस्य १७ तमे दिनाङ्के मेघालय-राज्यस्य शिलन नामाख्ये नगरे अभवत् । [२] तस्य पूर्वजाः राजस्थानवासिनः आसन् । किन्तु व्यापारार्थं पूर्वभारतं गताः । अतः हनुमानप्रसादस्य बाल्यकालः कोलकाता-नगरे व्यतीतः । तस्य पिता भीमराजः व्यापारी आसीत् । तस्य बाल्ये मातुः मृत्युरभवदतः तं पितामही अपोषयत् । [३]

शिक्षणम्

हनुमानप्रसादेन शालाकीयं शिक्षणं न प्राप्तम् । तेन स्वध्यायेन शिक्षणं प्राप्तम् । सः हिन्दीभाषायाः विद्वद्भिः, सम्पादकैश्च सह सम्पर्कवशात् हिन्दीसाहित्यम् अपठत् ।[४] अयोध्याप्रसादनामकेन विदुषा आङ्ग्लम् अपठत् । बङ्गालीयक्रान्तिकारिणां, सताञ्च जीवनचरित्राण्यपि अपठत् ।

पितुः जीवनात् प्रेरणा

हनुमानप्रसादस्य पिता भीमराजः व्यापरी आसीत् । किन्तु धार्मिकवृत्तियुतः आसीत् । तस्य आपणे अहर्निशं सत्सङ्गः भवति स्म । सः कतिचिद्भिः मित्रैस्सह मिलित्वा सनातनधर्मस्य पुष्टिकारिणी सभा इत्येतस्याः संस्थायाः स्थापनाम् अकरोत् । तस्य एतादृशः स्वभावस्य प्रभावः पुत्रस्य उपरि आसीत् ।[५] तेन पितुर्जीवनात् प्रसिद्ध्याः दूरे वनास्तव्यमित् प्रेरणा प्राप्ता ।

भारतीयसंस्कृतेः ज्ञानं, गुणानां च विकासः

कोलकाता-नगरे दानचन्द चोपडा इत्येकः व्यापारी वसति स्म । तस्य गृहे प्रतिदिनं जैनमुनीनाम् आगमनं भवति स्म । हनुमानप्रसादः तत्र प्रतिदिनं गच्छति स्म । तेन वैष्णवेतरां भारतीयसंस्कृतिं ज्ञातुं सः सहायतां प्रापत् । तेन किशोरावस्थायां धार्मिकसहिष्णुतायाः, उदारतायाः च गुणाः प्राप्ताः ।[६]

क्रान्तिकारिभिः सह सम्पर्कः

बङ्गाल-राज्यं तदानीं क्रान्तिकारिप्रवृत्तीनां केन्द्रम् आसीत् । कोलकाता-नगरे तदानीं क्रान्तिकारिणः वसन्ति स्म । तेषां सहवासेन हनुमानप्रसादः क्रान्तिकारिविचारयुतः अभवत् । १९०६ तमे वर्षे कोलकाता-नगरे कोंग्रेस-पक्षस्य अखिलभारतीयम् अधिवेशनम् आसीत् । तत्र हनुमानप्रसादेन जहाल इति पक्षतः कार्यं कृतम् । ततः परं तस्य गोपालकृष्ण गोखले, महात्मा, लोकमान्यः तिलकः, श्री अरविन्दः, सुभाष चन्द्रः बोस इत्यादिभिः सह सम्पर्कः अभवत् । [४]मदन मोहन मालवीय इत्येतेन सह तु तस्य आजीवनं सम्बन्धः आसीत् ।

जयदयाल गोएन्का इत्यस्य आध्यात्मिकगुरुत्वेन स्वीकारः

कोलकाता-नगरस्य पारकजी-कोठी इत्यत्र तस्य पितुः आपणः आसीत् । किशोरः हनुमानप्रसादः पितुः सहायतां कर्तुं प्रतिदिनम् आपणं गच्छति स्म । तदानीं जयदयाल गोएन्का इत्ययं हनुमानप्रसादस्य निकटवर्तिनम् आपणं प्रतिदिनं गच्छति स्म । जयदयाल गोएन्का अत्यन्तधार्मिकप्रकृतियुक्तः मनुष्यः आसीत् । [५]गीतायाः सन्देशप्रचारः तस्य जीवनलक्ष्यम् आसीत् । जयदयाल गोएन्का इत्यस्य ज्ञानयोगे, कर्मयोगे, भक्तियोगे च अद्भुतं ज्ञानम् आसीत् । जयदयाल गोएन्का इत्यस्य व्यक्तित्वस्य प्रभावेण हनुमानप्रसादः आध्यात्मिकगुरुत्वेन तम् स्व्यकरोत् ।

लेखनारम्भः

२० वर्षाणां न्यूने वयसि हनुमानप्रसादः लेखनम् आरभत । तस्य "मर्यादा" , "नवनीतम्" इति लेखौ कोलकाता-नगरस्य समाचारादिपत्रेषु प्रकाशितौ भवतः स्मः । याभ्यां सः प्रसिद्धिं प्रापत् । यैः तस्य साक्षात्कारः न कृतः, तैः सन्देशमाध्यमेन हनुमानप्रसादस्य परिचयः साधितः ।[७]

दानग्रहणे मालवीय इत्यस्य साहाय्यम्

१९१४ तमे वर्षे मदन मोहन मालवीय बनारस हिन्दुविश्वविद्यालयनिर्माणहेतवे धनार्जनं कर्तुं कोलकाता-नगरं गतः । तदानीं मारवाडी-समाजात् धनसङ्ग्रहाय हनुमानप्रसादेन महत्वपूर्णं योगदानं प्रदत्तम् । १९१५ तमे वर्षे महात्मा कोलकाता-नगरं समागतः । तदानीं हनुमानप्रसादेन स्वदेशसेवायाः व्रतं धृतम् । किन्तु महात्मना प्रभावितः सता अपि तेन क्रान्तिकारिविचाराः न त्यक्ताः । तदानीम् अपि सः क्रान्तिकारिदले सक्रियः आसीत् ।[८]

कारावासः, जीवनपरिवर्तनं च

हनुमानप्रसादः क्रान्तिकारिदले सक्रियः आसीत् अतः १९१६ तमे वर्षे राजद्रोहस्य आरोपेण बन्दीकृतः । ततः परं हनुमानप्रसादः अलीपुरस्य केन्द्रकारागारं, शिमलापाल इति नामकं कारागारं च प्रेषितः । तत्र सः भजनकीर्तनेन सह आध्यात्मिकसाधनाम् अकरोत् । इत्थं २१ मासान् यावत् कारागारे साधनाम् अकरोत् येन तस्य जीवने परिवर्तनम् आगतम् ।[९] हिंसावादिराजनीतिं प्रति तस्य मनः खिन्नताम् अन्वभवत् च ।

कोंग्रेस-पक्षस्य त्यागः धर्मप्रचारकार्यारम्भः

बङ्गालप्रदेशात् बहिष्कृतः हनुमानप्रसादः १९१८ तमे वर्षे कारागारात् विमुक्तः । एतादृश्यां स्थितौ सः स्वस्य पूर्वजानां स्थाने राजस्थाने न्यवसत् । कतिचित् दिनानि यापयित्वा ततः मुम्बई-नगरम् अगच्छत् । तत्र कोंग्रेस-पक्षस्य प्रत्येकं कार्यक्रमेषु उपस्थितः अभवत् । कोंग्रेस-पक्षस्य नेतृभिः सह विचारभेदवशात् हनुमानप्रसादः कोंग्रेस-पक्षमपि अत्यजत् । आध्यात्मिकतायाः, साधनायाः, धर्मप्रचारस्य च कार्यम् आरभत ।

हनुमानप्रसादः गीता प्रेस प्रकाशने विश्वासिकः

जयदयाल गोएन्का वेस्ट बङ्गाल सोसैटि रेजिस्ट्रेशन एक्ट इत्यत्र गोविन्दभवन-नामिकायाः संस्थायाः पञ्जीकरणम् अकारयत् । संस्थायाः माध्यमेन गीतावितरणस्य कार्यम् अचालयत् । कोलकाता-नगरस्य वणिक-नामकात् प्रकाशनात् पञ्चसहस्रप्रत्तीः अमुद्रापयत् । [१०] किन्तु तेषु मुद्रणदोषाः आसन् । अतः जयदयाल गोएन्का इत्ययं स्वप्रकाशनस्य उद्घाटने प्रेरणां प्रापत् । १९२३ तमे वर्षे गोविन्दभवन-कार्यालयेन 'गीता प्रेस गोरखपुर' इत्यस्य प्रकाशनस्य स्थापना कृता । तदानीं हनुमानप्रसादः कोंग्रेस-पक्षस्य दायित्वं त्यक्त्वा गीता प्रेस इत्यस्मिन् प्रकाशने सम्मिलितः । जयदयाल गोएन्का इत्येतेन 'गीता प्रेस' इत्यस्य विश्वासिक(trustee)पदं हनुमानप्रसादाय प्रदत्तम् । पत्रिकाणां प्रकाशने सम्पूर्णा स्वतन्त्रता अपि प्रदत्ता ।

कल्याणाङ्कस्य आरम्भः

हनुमानप्रसादेन १९२६ तमे वर्षे 'गीता प्रेस' इत्यतः 'कल्याण'-नामकं हिन्दी-सामयिकम् आरब्धम् । अस्य प्रारम्भात् प्राक् हनुमानप्रसादः महात्मनः आशीर्वादाय अगच्छत् । [११] महात्मना प्रसन्नेन सता उक्तं – “कल्याणाङ्के" नियमद्वयं पालनीयम् । कस्यापि विज्ञापनं न स्वीकर्तव्यम्, कस्यापि पुस्तकस्य समालोचना न कर्तव्या” इति । महात्मनः वचांसि श्रुत्वा हनुमानप्रसादः अवदत् हे महात्मन् ! नियमद्वयस्य पालनाय” आशीर्वादं ददातु ।

कल्याणाङ्कस्य हेतुः

हनुमानप्रसादः महात्मने प्रदत्तं वचनम् अपालयत् । [१२] साम्प्रतं नवतिः वर्षान्तेऽपि कल्याणाङ्के विज्ञापनं न प्रकाश्यते । कल्याणाङ्कस्य प्रथमे प्रकाशने तेन स्पष्टता कृता यद् - १ कल्याणाङ्कस्य प्रकाशनं संसारं, मानवकल्याणं च उद्दिश्य भवति । २ कल्याणङ्कः साधूनां, महात्मनां, महापुरुषाणां च दिव्यवाणीप्रचारेण जनान् जीवितुं प्रेरयिष्यति । ३ देश-जाति-धर्मादीनां लघुताग्रन्थितः विमुच्य सांसारिकजनान् भगवत्प्राप्तिमार्गं दर्शयिष्यति । ४ धनार्जनहेतुना विना कल्याणाङ्कः जनसामान्यस्य धार्मिकस्य, आध्यात्मिकस्य च उन्नतौ कार्यरतः भविष्यति | 'कल्याण'-सामयिकेन भारतीयवाङ्मयं शुद्धस्वरूपेण प्रतिगृहं गच्छेत् इति हनुमानप्रसादः प्रयत्नम् अकरोत् । भारतीयेषु सामयिकेषु 'कल्याण' इत्यस्य विशिष्टा प्रगतिः अभवत् । ४५ वर्षेषु तेन ४४ विशेषाङ्कानां प्रकाशनं कृतम् । 'कल्याण' इत्यस्य प्रारम्भात् हनुमानप्रसादः सम्पादनप्रकाशनकार्याभ्यां धनं न स्वीकरोति स्म । भोजनवस्त्रे अपि स्वरीत्यैव आनेष्यति इति सङ्कल्पितवान् । ‘कल्याण’ इत्यस्य विकासाय हनुमानप्रसादेन कदापि अन्यसामयिकैः सह स्पर्धा न कृता ।

दुर्गाप्रसादस्य साहाय्यकरः

एकदा सङ्कीर्तन-सामयिकस्य तन्त्रिणा दुर्गाप्रसादेन चिन्तया स्वसामयिकस्य ग्राहकसङ्ख्यायाम् आधिक्यं भवेत्तादृक् मन्त्रं ददातु इति उक्तम् । हनुमानप्रसादः उक्तवान् यद् – “भवान् मद्वद् सङ्कीर्तने चित्राणि मुद्रयतु । तदर्थं चित्राणि निःशुल्कं ददामि” इति । इत्थं सङ्कीर्तन-सामयिकस्य ग्राहकसङ्ख्यायाम् आधिक्यम् अभवत् ।[१३] दुर्गाप्रसादेन पुनः अन्यः उपायः पृष्टः । हनुमानप्रसादः कल्याणाङ्कस्य ग्राहकाणाम् आवलिं प्रेषितवान् । तेषु १२०० ग्राहकाणां नाम्नाम् उपरि चिह्नं कृत्वा तेभ्यः सङ्कीर्तनस्य प्रेषणेन अष्टशताधिकाः (८००) जनाः ग्राहकाः भविष्यन्ति इति अकथयत् । किन्तु इत्थं १२०० तः १२०० जनाः लब्धाः ।

महाभारतकल्पतरोः सामयिकयोः आरम्भः

१९३३ वर्षतः गीता प्रेस इत्यनेन प्रकाशनेन आङ्गलभाषायां कल्पतरु इति सामयिकस्य प्रकाशनं कृतम् । विदेशे अस्य बहुमानम् अभवत् । तस्मिन् भागवतस्य, रामायणस्य, महाभारतस्य च अनुवादाः प्रकाश्यन्ते स्म । हनुमानप्रसादः आमरणम् एतेन सह सम्मिलितः । भारतस्य प्राचीनग्रन्थं महाभारतं सामान्यजनं यावत् प्रेषयितुं १९५५ तमे वर्षे महाभारत नामाभिधं मासिकम् आरभत । [१४] तस्मिन् यथाक्रमं संस्कृतकथातः हिन्दीभाषायाम् अनुवादं कृत्वा लेखान् प्राकाशयत् । कथेयम् आपञ्चवर्षं प्रचाल्यमाना आसीत् । कथायाः समाप्तौ सत्यां सामयिकस्य प्रकाशनम् अपि पिहितम् अभवत् ।

हनुमानप्रसादस्य सेवा

हनुमानप्रसादस्य जीवनं गवां, गङ्गायाः च सेवायां समर्पितम् आसीत् । गीता प्रेस प्राकाशनेन गीतायाः प्रचारप्रसारः कृतः । प्रकाशनकार्यं तेन प्रकाशनं यावदेव सीमितं न कृतम् । अतिवृष्ट्यादिषु ईश्वरीय-आपत्तिषु पीडितानां सहायता अपि विहिता । गवां सेवायै अपि बहूनि कार्याणि कृतानि । [१५]

हनुमानप्रसादस्य त्यागः

एकदा हिन्दीसाहित्यसम्मेलनम् आसीत् । तत्र हनुमानप्रसादः साहित्यवाचस्पति इति पदवीं प्रापत् । किन्तु तेन अस्य विषयस्य उल्लेखः कुत्रापि न कृतः । तस्मै 'राव बहादुर' भवितुं ब्रिटिश-सर्वकारः प्रस्तावम् अस्थापयत् । संयुक्तः प्रान्ताध्यक्षः सर् हेगी तस्मै सर् इति उपाधिं दातुं प्रस्तावम् अस्थापयत् । [१६] किन्तु हनुमानप्रसादः अभिनन्दनादिभिः सदैव दूरमेव स्थितवान् ।

निवृत्तिः

समाजे सर्वत्र भ्रष्टाचारं दृष्ट्वा हनुमानप्रसादः खिन्नः भवति स्म । अतः एकान्तस्थलं प्राप्य साधनां कर्तुं व्यचारयत् । शरीरस्य निर्बलतावशात् निवृत्तः भवितुं व्यचारयत् । अन्ते गोविन्दभवन ट्रस्ट इत्यस्मिन् स्वविचारान् प्रस्तूय १९६९ तमे वर्षे निवृत्तः अभवत् । [१६]

मृत्युः

साधनायै कार्यमुक्तः अभवत्,किन्तु ईश्वरेच्छया रुग्णे जाते सति निदानेन उदरे कर्करोगवशात् आवर्षद्वयं प्रतिकारं कृत्वा १९७१ वर्षस्य मार्च-मासस्य २२ तमे दिनाङ्के ईश्वराङ्कं प्रापत् । [१७]

सन्दर्भः

फलकम्:Reflist

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=हनुमानप्रसाद_पोद्दार&oldid=10847" इत्यस्माद् प्रतिप्राप्तम्