हनुमानगढमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

Ajeetpura GAD.jpg
Bhatner durg.jpg
View of Bhagat Singh Chowk in Hanumanagrh.jpg
Kalibangan three mounds.jpg

हनुमानगढमण्डलं (फलकम्:Lang-hi, फलकम्:Lang-en) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति हनुमानगढनामकं नगरम् ।

भौगोलिकम्

हनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे श्रीगङ्गानगरमण्डलम्, उत्तरे पञ्जाबराज्यं, दक्षिणे चुरूमण्डलम् अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • हनुमानगढ
  • सङ्गरिया
  • पीलीबङ्गा
  • रावत्सर
  • नौहर
  • भादरा
  • टिब्बी

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कालीबङ्गा
  • गोगमेरीमन्दिरम्
  • ब्रह्माणीमातामन्दिरम्
  • भद्रकालीमातामन्दिरम्
  • भटनेर किला

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=हनुमानगढमण्डलम्&oldid=10947" इत्यस्माद् प्रतिप्राप्तम्