हतो वा प्राप्स्यसि स्वर्गं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement हतो वा प्राप्स्यसि स्वर्गम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मे जयः उत पराजयः लाभकरः भवति इति बोधयति । पूर्वस्मिन् श्लोके युद्धोपरामे सति शत्रवः किं करिष्यन्ति इति उक्त्वा अत्र युद्धे पराजयः उत जयः भवति, परन्तु ते लाभः अस्ति इति वदति । सः कथयति यद्, यदि त्वं युद्धे हतः, तर्हि स्वर्गं प्राप्स्यसि । यदि त्वं युद्धे विजितः, तर्ह्यपि राज्योपभोगं करिष्यसि । अतः हे कुन्तीनन्दन ! त्वं युद्धस्य निश्चयं कृत्वा उत्तिष्ठ इति ।

श्लोकः

गीतोपदेशः
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥

पदच्छेदः

हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम् । तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय कृतनिश्चयः ॥

अन्वयः

कौन्तेय ! हतः वा स्वर्गं प्राप्स्यसि । जित्वा वा (स्थितः) महीं भोक्ष्यसे । तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
कौन्तेय अ.पुं.सम्बो.एक. अर्जुन !
हतः अ.पुं.प्र.एक. मारितः वा
वा अव्ययम्
स्वर्गम् अ.नपुं.द्वि.एक. स्वर्गलोकम्
प्राप्स्यसि प्र+आप्लृ व्याप्तौ-पर.कर्तरि, लृट्.मपु.एक. लप्स्यसे
जित्वा क्त्वान्तम् अव्ययम् पराजित्य
वा अव्ययम् वा (स्थितः)
महीम् ई.स्त्री.द्वि.एक. भूमिम्
भोक्ष्यसे √भुज पालनाभ्यव्यवहारयोः-आत्म.कर्तरि, लृट्.मपु.एक. अनुभविष्यसि
तस्मात् तद्-द.सर्व.पुं.पं.एक. अतः
युद्धाय अ.नपुं.च.एक. योद्धुम्
कृतनिश्चयः अ.पुं.प्र.एक. निश्चयं कृत्वा
उत्तिष्ठ उद+√स्था अवस्थाने-पर.कर्तरि, लोट्.मपु.एक. सन्नद्धो भव ।

व्याकरणम्

सन्धिः

  1. हतो वा = हेतः वा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. तस्मादुत्तिष्ठ = तस्मात् + उत्तिष्ठ – जश्त्वसन्धिः

समासः

  1. कृतनिश्चयः = कृतः निश्चयः येन, सः – बहुव्रीहिः ।

कृदन्तः

  1. जित्वा = जि + क्त्वा

अर्थः

हे कुन्तीपुत्र ! युद्धे त्वं यदि म्रियसे तर्हि चिन्ता न कर्तव्या । यतः तेन त्वं स्वर्गं प्राप्स्यसि । अथ जयं प्राप्स्यसि तदा तु भूम्याः आधिपत्यं तव भविष्यति । उभयथापि तव श्रेयः एव भविष्यति । तस्मात् युद्धं करिष्यामि एव इति निश्चयं कृत्वा तदर्थं सन्नद्धो भव ।

भावार्थः [१]

'हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्' – पुरा अर्जुनः अवदत् यद्, वयं युद्धे जेष्यामः उत मरिष्यामः इति [२] । अर्जुनस्य तस्य सन्देहस्य प्रत्युत्तरं यच्छन् भगवान् अत्र युद्धस्य लाभं वदति । सः कथयति यद्, यदि युद्धे कर्णादिभिः त्वं मरिष्यसि, तर्हि त्वं स्वर्गं गमिष्यसि । यदि युद्धे त्वं जेष्यसि, तर्हि राज्यम् उपभोक्ष्यते । एवम् उभयतः लाभः अस्ति । तात्पर्यम् अस्ति यद्, युद्धे कृते उभयतः तव लाभः अस्ति, परन्तु यद्धे अकृते सर्वत्र ते हानिः । अतः त्वया युद्धं करणीयम् इति ।

'तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः' – अस्याध्यायस्य आरम्भे भगवान् अर्जुनाय युद्धं कर्तुम् आज्ञापयत् [३] । परन्तु अर्जुनस्य युद्धोपरामस्य विचारः अस्ति । अतः अर्जुनस्य मनसि सन्देहः उद्भूतः यद्, युद्धं योग्यम् उत न इति । अतः अत्र भगवान् तस्य सन्देहं नाशयितुं स्पष्टतया वदति यद्, युद्धस्य निश्चयं कृत्वा सर्वान् सन्देहान् त्यज इति ।

शाङ्करभाष्यम् [४]

युद्धे पुनः क्रियमाणे कर्णादिभिः -

हतो वा प्राप्स्यसि स्वर्गम्  हतः सन् स्वर्गं प्राप्स्यसि।  जित्वा वा  कर्णादीन् शूरान्  भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः। यत एवं  तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः  जेष्यामि शत्रून् मरिष्यामि वा इति निश्चयं कृत्वेत्यर्थः।।

भाष्यार्थः

पक्षान्तरे कर्णादिभिः वीरैः सह युद्धे कृते सति –

अथवा यदि त्वं युद्धे तैः मरिष्यसि, तर्हि स्वर्गं प्राप्स्यसि । अथवा कर्णादिवीरान् जित्वा त्वं पृथिव्याः राज्यं प्राप्स्यसि । तात्पर्यम् अस्ति यद्, युद्धे जयपराजयोः ते लाभः अस्ति इति । एवम् अस्ति अतः हे कौन्तेय ! युद्धाय कृतनिश्चयः भूत्वा उत्तिष्ठ । अर्थात् अहं शत्रुषु विषयं प्राप्स्यामि उत मरिष्यामि इति निश्चयं कृत्वा उत्तिष्ठ इति ।

रामानुजभाष्यम् [५]

अतः शूरस्य आत्मना परेषां हननम् आत्मनो वा परैः हननम् उभयम् अपि श्रेयसे भवति इति आह -

धर्मयुद्धे परैः हतः चेत् तत एव परमनिःश्रेयसं  प्राप्स्यसि  परान् वा हत्वा अकण्टकं राज्यं  भोक्ष्यसे।  अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तत् च परमनिःश्रेयसं प्राप्स्यसि।  तस्माद्   युद्धाय  उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम्  उत्तिष्ठ।  कुन्तीपुत्रस्य तव एतद् एव युक्तम् इत्यभिप्रायः।

भाष्यार्थः

अतः वीरेभ्यः स्वेन अन्यस्य वधम् अन्येन वा स्वस्य वधम् एव वरम् इत्येव कल्याणप्रदम् इति कथयति –

धर्मयुद्धे त्वं यदि अन्यैः हतः, तर्हि परमकल्याणं प्राप्स्यसि । अपरत्र सर्वान् मारयित्वा निष्कण्टकं राज्यम् उपभोक्ष्यसे । तथा च फलाभिसन्धिरहितं युद्धकर्म परमकल्याणस्य प्राप्तेः उपायः अस्ति । अतः त्वमपि तत् परमकल्याणं प्राप्स्यसि । अतः युद्धाय उद्योगः परमपुरुषार्थरूपिणः मोक्षस्य साधनम् अस्ति । मनसि एतादृशं निश्चयं कृत्वा युद्धाय उत्तिष्ठ । 'कौन्तेय' इत्यनेन सम्बोधनेन अत्र भवता सङ्केतितं यद्, तुभ्यं कुन्तीपुत्राय एतदेव उचितम् अस्ति इति ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ६
  3. गीता, अ. २, श्लो. ३
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्