हगलुवेषजनाङ्गः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement फलकम्:Infobox settlement

फलकम्:Infobox settlement


हगलुवेषजनाङ्गीयानां स्थानानि

रायचूरुमण्डलस्य गङ्गावती, यलबुर्गा, मान्वी, बळ्ळारीमण्डलस्य सिरगुप्प, सण्डूरु, होसपेटे, हगरीबोम्मनहळ्ळी, चित्रदुर्गमण्डलस्य चळ्ळकेरे, हिरियूरु, मोळकाल्मूरु, तुमकूरुमण्डलस्य मधुगिरिः, कोरटगेरे, पावगड, कोलारमण्डलस्य चिक्कबळ्ळापुर, गौरीबिदनूरु, गुडिबण्डे, मालूरु, शिड्लघट्ट, चिन्तामणि इत्यादिषु प्रदेशेषु हगलुवेषजनाः दृश्यन्ते ।

हगलुवेषजनाङ्गीयानां कुलवृत्तिः

एते भिक्षाटनया, मृगयया, पशुपालनेन च अहारसङ्ग्रहणं कुर्वन्ति । पुरुषाः दिने विभिन्नवेषं धृत्वा गृहं गृहं गत्त्वा कलात्मकतया प्रदर्शनं कृत्वा यदा कुटीरं प्रति प्रत्यागच्छन्ति तदा महिलाः भिक्षायाचनेन आहारसङ्ग्रहणं कुर्वन्ति । वेषं धृत्वा ग्रामे अटन्तः पुरुषाः वेषस्य निष्कासनपर्यन्तं मध्ये कदापि आहारं न स्वीकुर्वन्ति । एतेषां पूर्वजाः प्रातःकाले पर्युषितं खादित्वा वेषं धरन्ति चेत् तस्य निष्कासनपर्यन्तं कमपिमपि आहारं न स्वीकुर्वन्ति स्म इति । वेषान् धृत्वा त्रीणिदिनानि, पञ्चदिनानि, सप्तदिनानि, नवदिनानि एवं कदाचित् निर्दिष्ट-अवधिं यावत् ग्रामान् अटन्ति । प्रतिदिनं अन्यान्यवेषान् धृत्वा गृहं गृहं गत्वा अङ्गणे प्रदर्शनं कृत्वा आगच्छन्ति । अन्ते धनं, प्राचीनवस्त्रं, धान्यं, कुक्कुटं च पृष्ट्वा स्वीकुर्वन्ति । किन्तु कदापि एते पक्वं कृतम् आहारं न स्वीकुर्वन्ति । एते स्वान् बुड्गजङ्गालु, बुड्गजङ्गं, जङ्गालु इत्यादि नाम्ना परिचाययन्ति । एतेषु ११० गोत्राणि सन्ति । एतेषां भाषायां तेलुगुभाषायाः प्रभावः अधिकः अस्ति ।

"https://sa.bharatpedia.org/index.php?title=हगलुवेषजनाङ्गः&oldid=3206" इत्यस्माद् प्रतिप्राप्तम्