सोलापुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

कम्बर तडागः
सिद्धेश्वरमन्दिरम्
सञ्चिका:Solapuri.jpg
सोलापुरी आच्छादिकानि
सञ्चिका:Pandharpur२.jpg
पण्ढरपुर क्षेत्रम्

सोलापुरमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सोलापुर इत्येतन्नगरम् । अत्र निर्मितानि 'सोलापुरी चादर' सोलापुरी-आच्छादकानि आभारतं प्रसिद्धानि । पण्ढरपुर इति तीर्थक्षेत्रम् अस्मिन्नेव मण्डले विद्यते ।

भौगोलिकम्

सोलापुरमण्डलस्य विस्तारः १४,८४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि उस्मानाबादमण्डलं, कर्णाटकराज्यं च पश्चिमदिशि साङ्गलीमण्डलं, सातारामण्डलं, पुणेमण्डलं च, उत्तरदिशि अहमदनगरमण्डलम्, उस्मानाबादमण्डलं च, दक्षिणदिशि साङ्गलीमण्डलं, कर्णाटकराज्यं च अस्ति । अस्मिन् मण्डले ५४५.४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखनदी भीमा अस्ति ।

ऐतिहासिकं किञ्चित्

'सोळा' अर्थात् षोडशग्रामाणां समाहारः इत्यस्य दर्शकं नाम 'सोलापुर' इति कथ्यते । शिलालेखेभ्यः ज्ञायते यत् 'सोन्नळगी', 'सोन्नळगे', 'सोनाळिपुर', 'सोनळपुर' इत्येतानि अस्य परिसरस्य पुरातननामानि आसन् । अयं मण्डलपरिसरः आन्ध्रभृत्य-चालुक्य-राष्ट्रकूट-यादव-बहमनी-मुघल-मराठाराजानाम्, आङ्ग्लप्रशासकानां च आधिपत्ये आसीत् । मुघलाधिपत्ये अस्य नाम 'सोनलपुर' इति आसीत् । आङ्ग्लाधिपत्ये अस्य नाम 'सोलापुर' अभवत् । १९३० तमे वर्षे जाते 'सविनय-कायदेभङ्ग-आन्दोलने' अत्रस्थाः जनाः सोत्साहेन भागम् ऊढवन्तः । ४ युवानः हुतात्मनः अपि अभवन् । अतः हुतात्मनः नगरम् इति प्रसिद्धमिदं मण्डलम् ।

कृषिः उद्यमाश्च

यवनालः(ज्वारी), गोधूमः, चणकः, 'तूर', कलायः, इक्षुः च अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् वस्त्रोद्यमाः प्रचलन्ति । उद्यमेभ्यः आच्छादकानि, प्रोञ्छाः उत्पाद्यन्ते । तेषां विदेशविक्रयणं भवति । 'बीडी' इति तमाखुनालि-उत्पादनम् अपि प्रचलति अत्र । तेषु उद्यमेषु सहकार-गणाः प्रचलन्ति, गणेभ्यः कर्मकराणाम् अधिकाररक्षणं भवति । मण्डलेऽस्मिन् 'रबी'-यवनाल-संशोधनकेन्द्रं, दाडिमफलसंशोधनकेन्द्रं, कृषिसंशोधनकेन्द्रं च प्रचलन्ति ।

जनसङ्ख्या

सोलापुरमण्डलस्य जनसङ्ख्या(२०११) ४३,१७,७५६ अस्ति । अस्मिन् २२,२७,८५२ पुरुषाः, २०,८९,९०४ महिलाः च निवसन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ७७.०२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश-उपमण्डलानि सन्ति । तानि-

  • उत्तर सोलापुर
  • दक्षिण सोलापुर
  • अक्कलकोट
  • बार्शी
  • मङ्गळवेढा
  • पण्ढरपुर
  • साङ्गोला
  • माळशिरस
  • मोहोळ
  • माढा
  • करमाळा

लोकजीवनम्

सोलापुरमण्डले मराठी, कन्नड, तेलुगु इत्येताः भाषाः व्यवहारे प्रचलन्ति । मराठीभाषायाः उच्चारणे इतरभाषाणां प्रभावः दृश्यते । मण्डलेऽस्मिन् प्रमुखतया 'लिङ्गायत', 'पद्मशाली', 'धनगर' इत्येताः जनजातयः सन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति । श्रीसिद्धसिद्धेश्वर इत्यस्य समाधिस्थलं तथा अत्रस्था योगदण्डस्य/'गड्ड्याची'/'काठीची' यात्रा प्रसिद्धा । आषाढ-कार्तिक-एकादशीदिनयोः रथयात्रा प्रचलति । मण्डलेऽस्मिन् यवनालोत्पादनं बहु भवति, शीतकाले 'हुरडा' इति यवनालस्य विशिष्टसंस्कृतपदार्थं जनाः खादन्ति । आमहाराष्ट्रं प्रसिद्धा, जनेषु प्रिया इयं पद्धतिः ।

व्यक्तिविशेषाः

  • शिवभक्तः सिद्धरामेश्वरः
  • सन्त-शुभराय-महाराजः
  • सन्त-दामाजीपन्तः
  • श्री-स्वामी-समर्थः
  • साहित्यिकाः - न.चि.केळकर, शाहीर-राम-जोशी('लावणीकार'), बा.सी. मर्ढेकर

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • पण्ढरपुर-उपमण्डले विठ्ठलरुक्मिणीमन्दिरं, भक्तपुण्डलिकमन्दिरं, तनपुरेमहाराजमठः, कैकाडीमहाराजमठः च
  • अक्कलकोट इत्यत्र स्वामी-समर्थ-महाराजस्य समाधिस्थलम्
  • बार्शी इत्यत्र भगवन्तमन्दिरम्
  • सिद्धेश्वरमन्दिरम्
  • सोलापुर इत्यत्र भूमिकोटः
  • गङ्गापुर इत्यत्र श्री दत्तात्रेयमन्दिरम्

बाह्यानुबन्धाः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=सोलापुरमण्डलम्&oldid=2439" इत्यस्माद् प्रतिप्राप्तम्