सोमदेवः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सोमदेवः (Somadeva) बृहत्कथा क्षेमेन्द्रेण यथा बृहत्कथामञ्जर्यां सङ्गृहीता तथैव सोमदेवेन अपि कथासरित्सागरे सङ्गृहीता । सोमदेवः अपि क्षेमेन्द्रः इव काश्मीरराजस्य अनन्तस्य आस्थाने, एकादशो शतके च आसीत् । अनन्तराजस्य खिन्नायाः पत्न्याः सूर्यवत्याः मनोविनोदार्थं सः कथासरित्सागरं रचितवान् इति श्रूयते । सोमदेवस्य पिता रामदेवः । सोमदेवस्य कथासरित्सागरे दीर्धाः समासाः कठिनानि पदानि च न्यूनानि । अतः कथासु सरलता विशेषतः दृश्यते । बृहत्कथामञ्जर्याम् अदृश्यमानाः बह्व्यः बृहत्कथाग्रन्थस्थाः कथाः कथासरित्सागरे दृश्यन्ते । कथासरित्सागरे स्थिताः कथाः काश्चन लध्व्यः, पुनः काश्चन दीर्धाः । विविधजनसम्बद्धाः विभिन्नदेशसम्बद्धाः च कथाः भवन्ति अत्र । कथानिरूपणे सोमदेवस्य अनुपमं सामर्थ्यम् । भारतीयं साहित्यं यथा रामायणं महाभारतं च अवलम्बते तथैव कथासरित्सागरम् अपि अवलम्बते । कथासरित्सागरः विविधाभिः भाषाभिः अनूदितः अपि ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सोमदेवः&oldid=4193" इत्यस्माद् प्रतिप्राप्तम्