सेरसिपमण्डलम्
सेरसिपमण्डलं (फलकम्:Lang-en) मिजोरामराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सेरसिप इत्येतन्नगरम् । १५ सेप्टेम्बर् १९९८ दिनाङ्के अस्य मण्डलस्य स्थापना कृता । अतः नूतनमिदं मण्डलम् ।
भौगोलिकम्
सेरसिपमण्डलस्य विस्तारः १४२१.६० चतुरस्रकिलोमीटर्मितः अस्ति । मण्डलमिदं मिजोरामराज्ये विद्यमानेषु मण्डलेषु विस्तारदृष्ट्या लघुतमं मण्डलम् । अस्य मण्डलस्य पूर्वदिशि चम्पायमण्डलम्, आग्नेयदिशि म्यानमारदेशः, दक्षिणदिशि लुङ्गलैमण्डलं, वायव्य तथा उत्तरदिशि ऐजोलमण्डलम् अस्ति ।
जनसङ्ख्या
सेरसिपमण्डलस्य जनसङ्ख्या(२०११) ६४,९३७ अस्ति । अस्मिन् ३२,८५१ पुरुषाः, ३२,०८६ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७७ अस्ति । अत्र साक्षरता ९७.९१% अस्ति । मण्डलेऽस्मिन् ५०.६९% जनाः ग्रामेषु निवसन्ति ।
कृषिः
मण्डलेऽस्मिन् जल-पर्वत-सम्पदाकारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशवृक्षाः, काष्ठानि च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयति ।
उपमण्डलानि
अस्मिन् मण्डले उपमण्डलद्वयम् अस्ति -
- सेरसिप
- पूर्व लुङ्गदर
वीक्षणीयस्थलानि
अस्य मण्डलस्य प्रसिद्धानि वीक्षणीयस्थलानि । यथा -
- सेरसिप-नगरम्
- सेरसिप-नगरानन्तरं प्रगतं तेनजोल इत्येतन्नगरम् प्रेक्षणीयम् ।
- तेनजोल-नगरे Vantawng Khawhthla जलप्रपातः ।
- Khawnglung अभयारण्यम् ।
बाह्यानुबन्धाः
फलकम्:मिजोरामराज्यस्य मण्डलानि फलकम्:भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च