सुरतमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

दक्षिणगुजरात

सुरतमण्डलम् (फलकम्:Lang-gu, फलकम्:Lang-en) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सुरत इति महानगरम् ।

भौगोलिकम्

सुरतमण्डलस्य विस्तारः ४,३२७ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे तापीमण्डलं, पश्चिमे 'गल्फ् आफ् खम्भात', उत्तरे भरुचमण्डलं, दक्षिणे नवसारीमण्डलम् अस्ति । अस्मिन् मण्डले १०००-१२०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले एका एव नदी प्रवहति । सा तापी ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सुरतमण्डलस्य जनसङ्ख्या ६०,७९,२३१ अस्ति । अत्र ३३,९९,७४२ पुरुषाः २६,७९,४८९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १,३७६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १,३७६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४२.१९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-७८८ अस्ति । अत्र साक्षरता ८६.६५% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ सुरत २ उमरपाडा ३ ओलपाड ४ चोर्यासी ५ कामरेज ६ पलसाणा ७ महुवा ८ बारडोली ९ माण्डवी १० माङ्गरोल

कृषिः वाणिज्यं च

पपितफलं, कदलीफलं, भिण्डकः, गन्धद्रव्याणि, हरिद्रा, आर्द्रकं ('जिञ्जर्'), मरीचिका च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु पपितफलस्य, भिण्डकस्य, हरिद्रायाः च उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कदलीफलस्य, आर्द्रकस्य, मरीचिकायाः च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । वज्रसंस्करणं, 'पेट्रोकेमिकल्स्', वस्त्रोत्पादनम्, 'एञ्जिनियरिङ्ग्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

सुरत इत्यस्मात् महानगरात् १८ किलोमीटर्दूरे प्रसिद्धः 'डुम्मस्'-सागरतटः अस्ति । सुरततः २८ किलोमीटर्दूरे 'हजीरा'-सागरतटः अस्ति । सुरततः ९० किलोमीटर्दूरे तापीनद्याः उपरि निर्मितः उकाई-जलबन्धः (उकाई 'ड्याम्') अस्ति । सुरतप्रासादः (सुरत 'क्यासल्'), मुगलसाराई, एण्ड्र्यूस्-ग्रन्थालयः, सरदार वल्लभभाई पटेल-सङ्ग्रहालयः, तारालयः, 'यूरपियन् टूम्ब्स्' च सुरत इत्यस्मिन् महानगरे विद्यमानानि वीक्षणीयस्थलानि सन्ति । बारडोली-उपमण्डले स्थितः स्वराज्-आश्रमः, सोनगढ इत्यत्र स्थितः ऐतिहासिकः दुर्गः, हजीरामार्गे स्थितं जलोद्यानं ('वाटर् फन् पार्क्'), कामरेज-उपमण्डले स्थितं जलोद्यानं, धोनपडी इत्यत्र विद्यमानं 'जोय् एण्ड् जोय्' विनोदोद्यानं ('अम्यूस्मेण्ट् पार्क्') च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

फलकम्:गुजरातराज्यस्य मण्डलानि

फलकम्:Geographic location

"https://sa.bharatpedia.org/index.php?title=सुरतमण्डलम्&oldid=5811" इत्यस्माद् प्रतिप्राप्तम्