सिम्हेन्द्रमध्यमम् (रागः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:कर्णाटकसङ्गीतरागः

सिम्हेन्द्रमध्यमरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागःवेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः सप्तपञ्चाशत्तमः मेलकर्तृरागः अस्ति।मुत्तुस्वामि-दीक्षितस्य मेलकर्तृरागव्यवस्थायाः अनुसारम् एतस्य रागस्य नाम "सुमद्युतिः"। एषः रागः शण्मुखप्रियारागस्य सदृशः रागः। हिन्दुस्थानीयशास्त्रीयसङ्गीते जनाः कर्णाटकसङ्गीतात् एतं रागं स्वीकृतवन्तः।

लक्षणानि

सिम्हेन्द्रमध्यमम्रागस्य आरोहणम् अवरोहणम्

दिशिचक्रे तृतीयः रागः। अस्मिन् रागे चतुश्रुतिऋषभः, साधारणगान्धारः, प्रतिमध्यमः, शुद्धधैवतः , काकलिनिशादं च स्वराः भवन्ति। यतः अयं रागः मेलकर्तृरागः अस्ति, अतः वयं एतं रागं "सम्पूर्णरागं" इति वदामः । सम्पूर्णरागः इत्युक्ते सर्वे सप्तसवराः अपि भवन्ति। निशादं विहाय शन्नमुखप्रियारागस्य (५६ मेलकर्तृरागः) सदृशः एव । मध्यमं विहाय कीरवाणीरागस्य (२१ मेलकर्तृरागः) समानः एव ।

जन्यरागाः

सिम्हेनद्रमध्यमरागस्य केचन विरलाः जन्यरागाः सन्ति। उदाहरणार्थम् आनन्दवळी (रागः) जयचूडामणि (रागः) शुद्ध (रागः) विजयसरस्वति (रागः) च केचन जन्यरागाणां नामानि।

प्रसिद्धानि कीर्तनानि

अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -

  1. "नीदु चरनमुले", "पन्नगेन्द्र शयन" - त्यागराजः, तेलुगुभाषा
  2. "राम राम गुण सीम" - स्वाति तिरुनालः, संस्कृतभाषा
  3. "अय्यप्पा" - येसुदास्, तमिऴ्
  4. "पामरजन पालिनि" - मुत्तुस्वामी दीक्षितः, संस्कृत भाषा

फलकम्:मेलकर्तृरागाः