सार्वभौमसंस्कृतप्रचारसंस्थानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सार्वभौम-संस्कृत-प्रचार-संस्थानम्, वाराणसी (Sarwabhuma Sanskrit Prachar Sansthan, Varanasi)

‘‘सत्यनिष्ठं शिवं सुन्दरं संस्कृतम्’’ इति सार्वभौमसंस्कृतप्रचारसंस्थानस्य आदर्शवाक्यम्। सार्वभौमस्य स्थापना वासुदेवद्विवेदिशास्त्रिणा 15/8/1947 तमे दिनाङ्के कृता। वाराणस्याः बांसफाटक इति क्षेत्रस्य हौजकटोरा इति बीथ्याम् एतत् संस्थानं प्रतिष्ठितम्। वासुदेवद्विवेदिमहोदयस्य इच्छा आसीत् यत् वाराणस्याः रक्षायानचालकः अपि संस्कृतेन वदेत्। महोदयेन संस्कृतप्रचारपुस्तमालारूपेण बहूनि पुस्तकानि प्रकाशितानि। सौर्वभौमद्वारा अद्यावधि 35 पुस्तकानि प्रकाशितानि। वासुदेवद्विवेदिमहोदयस्य ‘‘अद्यापि’’ इति अन्तिमं पुस्तकम् अस्ति।

वाराणस्यां संस्कृतस्य कश्चन विद्यार्थी संस्कृतेन वदति चेत् अन्यः विद्यार्थी तं सत्वरं पृच्छति- ‘भवान् सार्वभौमं गच्छति वा ?’ इत्युक्ते संस्कृतसम्भाषणस्य प्रशिक्षणाय सार्वभौम-संस्कृत-प्रचार-संस्थानं संस्कृताभ्यर्थिनाम् अनन्यं केन्द्रम्। अद्यापि सार्वभौमे सायं प्रातः च होराद्वयं संस्कृतकक्ष्या प्रचलति। तस्याः कक्ष्यायाः स्वरूपं निम्नलिखितम् अस्ति-

·        कर्तृवाच्यस्य नियमं विज्ञाप्य अनुवादः कर्तुं दीयते।

·        सर्वप्रथमं लट्लकारस्य व्यावहारिकधातुरूपैः भृशम् अनुवादः कार्यते। कर्तृक्रिययोः मेलनं कृत्वा लेखनाभ्यासः भाषणाभ्यासश्च कार्यते। यथा- सः गच्छति। तौ गच्छतः। ते गच्छन्ति। त्वं गच्छसि। युवां गच्छथः। यूयं गच्छथ। अहं गच्छामि। आवां .....।

·        कक्ष्यायाम् अनुवादः कर्तुं दीयते, तस्य निरीक्षणं क्रियते। ततः कारक-शब्द-धातुरूपाणां नियमाः पाठ्यन्ते। पुनः गृहकार्याय अनुवादकार्यं दीयते। अन्ते संस्कृतेन वक्तुं सर्वेभ्यः निमेषद्वयं प्रदीयते। छात्रः कमपि विषयमाधारीकृत्य स्वीयं भाषणं वदति।

·        इत्थं कालानुक्रमेण कर्मवाच्यम्, प्रत्ययाः, समासः चेत्यादीनां प्रयोगेण अनुवादः कार्यते।

·        छात्रेषु दक्षता आगच्छति चेत् तेन कमपि विषयमाधारीकृत्य निबन्धः लेखाप्यते। भाषणं सम्भाषणं च कार्यते।

·        अन्ते दीक्षान्तसमारोहे अथवा समापनकार्यक्रमे प्रमाणपत्रं प्रदीयते।

·        सरलतया संस्कृशिक्षणाय ‘सुगमधातुरूपावलिः’‘सुगमशब्दरूपावलिः’ चेति पुस्तकद्वयं तत्र अनुवादाय साहाय्यं भवति।

·         कक्ष्यायां छात्राः निःशुल्कम् अध्ययनं कुर्वन्ति।

सम्बद्धाः लेखाः