सातारामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सञ्चिका:235px-सातारा दर्शन.jpg
सातारामण्डल-दर्शनम्
सञ्चिका:Ramdas२०.jpg
शिवाजीमहाराजस्य गुरुः स्वामी रामदासः
सञ्चिका:Raniलक्ष्मी.jpg
राज्ञी लक्ष्मीबाई

सातारामण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सातारा इत्येतन्नगरम् ।

भौगोलिकम्

सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि सोलापुरमण्डलं, पश्चिमदिशि रत्नागिरिमण्डलम्, उत्तरदिशि पुणेमण्डलं, रायगडमण्डलं च, दक्षिणदिशि साङ्गलीमण्डलम् अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्यः प्रमुखनद्यः सन्ति कृष्णा, कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च ।

जनसङ्ख्या

सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१ अस्ति । अस्मिन् १५,१०,८४२ पुरुषाः, १४,९२,८९९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि-

प्राकृतिकवैशिष्ट्यानि

कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यैः पूर्णं, यथा उच्चपर्वतावल्यः, शैलप्रस्थानि, वनविभागाः च । सागरस्तरतः ४५०० पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्णः एषः प्रदेशः । अस्य मण्डलस्य पर्वतप्रदेशे बहवः प्रसिद्धाः दुर्गाः सन्ति ।

कृष्युत्पादनम्

मण्डलेऽस्मिन् कृषिः प्रमुखोपजीविकासाधनम् । तण्डुलः, यवनालः(ज्वारी‌), 'बाजरी', गोधूमः, किणः(corn), 'स्ट्रोबेरी', चणकः, इक्षुः, कार्पासः, कलायः, शिम्बी(घेवडा), 'सोयाबीन', आलुकम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

लोकजीवनम्

मण्डलेऽस्मिन् ८१.०१% जनाः ग्रामेषु, १८.९९% जनाः नगरेषु च निवसन्ति । मण्डलेऽस्मिन् १,७३९ ग्रामाः, १५ नगराणि च सन्ति । ग्रामेषु प्रायः सर्वे कृषिव्यवसायसम्बन्धिकार्येषु रताः । सातारा, कराड, फलटण, वाई स्थानेषु उद्यमाः अधिकाः सन्ति । मण्डलेऽस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अतः पर्यटनसम्बन्धिताः व्यवसायाः अपि प्रचलन्ति अत्र ।

व्यक्तिविशेषाः

बहूनां व्यक्तिविशेषाणां कार्यस्थलं वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ रामदास स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह महाराज,राज्ञीलक्ष्मी बाई क्रान्तिसिंह नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. सज्जनगड-दुर्गः
  2. प्रतापगड-दुर्गः
  3. शिखर-शिङ्गणापुर
  4. श्रीभैरवनाथ-मन्दिरम्
  5. महाबळेश्वरम्
  6. वासोटा-दुर्गः
  7. अजिङ्क्यतारा-दुर्गः
  8. कास-सरोवरः
  9. नटराजमन्दिरम्
  10. ठोसेघर
  11. शिवाजी-सङ्ग्रहालयः
  12. भवानी-सङ्ग्रहालयः
  13. कोयना-अभयारण्यम्


बाह्यानुबन्धाः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=सातारामण्डलम्&oldid=3072" इत्यस्माद् प्रतिप्राप्तम्