साईकोम् मीराबाई चानुः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
सञ्चिका:Mirabai Silver Tokyo 2020.jpg
२०२१ टोकियो ओलम्पिक् क्रीडासु रजतपदकम्

साईकोम् मीराबायी चानु (जन्म- आगस्ट् ८ १९९४) काचित् भारवहनक्रीडापटुः । २०२१ तमे टोकियो ओलम्पिक् क्रीडायां महिलानां ४८ के.जि भारवहनस्पर्धायां रजतपदकं प्राप्तवती ।[१] [२] अन्यासु क्रीडासु अपि सा पदकानि प्राप्तवती । क्रीयायां विहितां सेवां परिगणय्य भारतसर्वकारेण पद्मश्रीप्रशस्तिः, राजीवगान्धीखेल्-रत्नप्रशस्तिः च अस्यै दत्ता वर्तते ।

बाल्यम्

आगस्ट् ८ १९९४ तमे दिने मणिपुरराज्यस्य इम्फालप्रदेशे नाग्फाङ्ग् कक्चिङ्ग् इत्यत्र हिन्दू परिवारे चानुः जन्म प्राप्तवती । बाल्यकाले एव अस्यां भारवहनशक्तिः दृश्यते स्म । सा सुगमरूपेण काष्ठबन्धान् गृहं प्रति नयति स्म यान् ओढुं तदग्रजः क्लिश्नाति स्म । तस्याः भारवहनस्पर्धासु भागग्रहणाय अपि प्रोत्साहः प्राप्तः

क्रीडास्पर्धासु

खेल्-रत्नपुरस्कारप्रदानम्

२०१४ तमे ग्लास्को कामन्वेल्त् क्रीडायां ऐदम्प्राथम्येन चानुः जगतः दृष्टिपथम् आयाता । कामन्वेल्त् क्रीडासु तया ४८ के.जि विभागे रजतपदकं प्राप्तम् ।[३]

२०१६ दक्षिणएशिया क्रीडायां चानुः

४८ के.जि महिलानां विभागे चानुः २०१६ रियो ओलम्पिक् क्रीडायां भागं गृहीतवती । परन्तु यशस्वि भारवहनं कर्तुं विफला सञ्जाता । २०१७ तमे वर्षे अमेरिकायां अन्ताराष्टीयक्रीडायां १९४ के.जि भारमूढ्वा नूतनम् इतिहासं निर्माय ४८ केजि विभागे स्वर्णपदकं प्राप्तवती ।. [४]

२०१८ तमे वर्षे कामन्वेल्त् क्रीडायाम् १९६ के.जि ऊढ्वा स्वर्णपदकं प्राप्तवती । २०१९ तमे एशियाड् क्रीडायाम् चतुर्थस्थानं च अवाप्तम् । २०२० तमे एशियन् क्रीडायां २०५ के.जि ऊढ्वा कांस्यपदकम् २०२१ ओलम्पिक् अर्हतां च प्राप्तवती[५] । तस्मिन्नेव वर्षे विश्वभारवहनस्पर्धायां चतुर्थं स्थानं प्राप्तवती ।२०२० तमे वर्षे कल्कत्तायां राष्ट्रियभारवहनस्पर्धायां स्वर्णपदकं च प्राप्तवती । [६]

२०२१ टोकियो ओलम्पिक्स्

२०२१ तमे टोकियो ओलम्पिक्स् क्रीडायां २०२ के.जि वहनेन ४९ के.जि महिलानां विभागे रजतपदकं प्राप्तवती । भारवहनस्पर्धायां ओलम्पिक् क्रीडासु रजतपदकं प्राप्तवती प्रथमा भारतीया चानुः । कर्णं मल्लेश्वर्याः (२००० सिड्नि ओलम्पिक्स् कांस्यपदकम्) अनन्तरं भारवहनस्पर्धायां पदकं प्राप्तवती चानुः । [७] चानुम् उद्दिश्य वर्धापनं वदन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भारतस्य सन्तोषदायकः आरम्भः अद्भुतं प्रदर्शनं च उल्लासदायकम् अस्ति इति अवोचत् [८] [९]

पुरस्काराः

चानोः मणिपुरस्य मुख्यमन्त्री बिरेन् सिंहः ₹ २ मिलियन् रूप्यकाणि पुरस्कारत्वेन घोषितवान् । २०१८ तमे वर्षे राजीवगान्धीखेल्-रत्नप्रशस्तिः, पद्मश्रीप्रशस्तिः च दत्ता ।

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=साईकोम्_मीराबाई_चानुः&oldid=3230" इत्यस्माद् प्रतिप्राप्तम्