सहयज्ञाः प्रजाः सृष्ट्वा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement सहयज्ञाः प्रजाः सृष्ट्वा (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणाम् अवश्यकर्तव्यतां बोधयति । पूर्वस्मिन् श्लोके भगवान् कर्मबन्धनात् मुक्तिः कथम् इति बोधयित्वा अत्र कर्मणः आवश्यकां बोधयितुम् अन्यं हेतुं वदति । सः कथयति यद्, प्रजापतेः कल्पादौ यज्ञसहितं प्रजानां रचनां कृत्वा ताः प्रजाः अवदत् यद्, यूयम् अनेन यज्ञेन वृद्धिं प्राप्नुयात । एषः यज्ञः युष्मभ्यम् इष्टफलदः भवेद् इति ।

श्लोकः

गीतोपदेशः
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

पदच्छेदः

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वः अस्तु इष्टकामधुक् ॥ १० ॥

अन्वयः

प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच । अनेन (यज्ञेन) प्रसविष्यध्वम् । एषः वः इष्टकामधुक् अस्तु ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
प्रजापतिः सृष्टिकर्ता
पुरा पूर्वम्
सहयज्ञाः कर्माधिकृताः
प्रजाः मानवान्
सृष्ट्वा विधाय
उवाच अवदत्
अनेन एतेन (यज्ञेन)
प्रसविष्यध्वम् वृद्धिं प्राप्नुवन्तु
एषः अयम्(यज्ञः)
वः इष्टकामधुक् भवताम् अभीष्टदाता
अस्तु भवतु ।

व्याकरणम्

सन्धिः

  1. पुरोवाच = पुरा + उवाच – गुणसन्धिः
  2. एष वः = एषः + वः – विसर्गसन्धिः (लोपः)
  3. वोऽस्तु = वः + अस्तु – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. अस्त्विष्टकामधुक् = अस्तु + इष्टकामधुक् – यण्सन्धिः

समासः

  1. सहयज्ञाः = यज्ञेन सह वर्तन्ते – बहुव्रीहिः
  2. प्रजापतिः = प्रजानां पतिः – षष्ठीतत्पुरुषः
  3. इष्टकामधुक् = इष्टाश्च ते कामाश्च इष्टकामाः – कर्मधारयः
  4. इष्टकामान् दोग्धि – कर्तरि क्वप्, उपपदसमासश्च

कृदन्तः

  1. सृष्ट्वा = सृज् + क्त्वा

अर्थः

सृष्टिकर्ता कल्पादौ वर्णोचितकर्मणा सह प्रजाः सृष्ट्वा अनेन कर्मणा भवन्तः वृद्धिं प्राप्नुवन्तु, इदं कर्म भवताम् अभीष्टदायकं भवतु इत्यवदत् ।

भावार्थः

'सहयज्ञाः प्रजाः सृष्ट्वा परुवाच प्रजापतिः' - पूर्वस्मिन् श्लोके भगवान् अवदद् यद्, यज्ञं (कर्तव्यकर्म) विना कर्म बन्धनकारकं भवति । अतः एतस्मात् बन्धनात् मुक्त्यै कर्मणः कर्तव्यबुद्धेः आचरणम् आवश्यकम् इति । सः अधुना कर्मणाम् अवश्यकर्तव्यतां पुष्टयितुम् अपरस्य हेतोः उपस्थापनं करोति । प्रजासृष्टा ब्रह्मा सृष्टेः स्वामी अस्ति । अतः स्वस्य कर्तव्यपालनेन सह सः प्रजानां रक्षायाः, कल्याणस्य च विचारं कुर्वन् भवति । यतो हि यः यम् उत्पाद्यते, तस्मै सः उत्तरदायित्वं भवति । अतः सः 'प्रजापतिः' इति । 'सृष्टिः' इत्युक्ते सर्गस्य आरम्भे ब्रह्मणा कर्तव्यकर्मणः योगतासहितस्य, वेवेकिनः मनुष्यस्य रचना कृता । अत्र बोध्यं यत्, भगवतः आज्ञया एव ब्रह्मा सृष्टेः रचनां करोति, अतः सृष्टेः रचनायाः मूले तु भगवान् एव अस्ति इति [१] [२]

अनुकूलप्रतिकूलपरिस्थितीनां सदुपयोगः कल्याणप्रदः भवति । अतः एव विश्ववाड् अनुकूलप्रतिकूलपरिस्थितीनां सदुपुयोगस्य विवाकेन सह मनुष्यस्य रचनाम् अकरोत् । सदसतोः विचारे असमर्थैः वृक्षपुश्वादिभिः स्वाभाविकः परोपकारः (कर्तव्यपालनं) भवति । परन्तु मन्षुयस्तु भवत्कृपया विशेषविवेकशक्तेः स्वामी भवति । अतः यदि स स्वस्य विवेकोपयोगं कृत्वा अकर्तव्यकर्माणि त्यजति, तर्हि तेन अपि स्वाभाविकतया लोकहितकर्माणि भवेयुः । देव-ऋषि-पितृ-मनुष्य-पशु-वृक्षादयः सर्वे प्राणिनः 'प्रजाः' इति । विवेकशक्तित्वात् मनुष्यस्योपरि अन्येषां पालनस्य विशेषोत्तरदायित्वं भवति । अतः अत्र 'प्रजाः' इत्यस्य पदस्य प्रयोगः विशेषतया मनुष्येभ्यः एव स्वीक्रियते । अनादिकालात् कर्मयोगस्य अनुष्ठानं चलति । भगवान् कथयति यद्, एषः कर्मयोगः अद्यत्वे प्रायः लुप्तः अस्ति । तस्य पुनर्जागृत्यै त्वं पुनः कथयामि इति [३] । तमेव विषयम् अत्र 'पुरा' इत्यनेन पदेन पुनः कथयति यद्, मया एव न अपि तु विश्वौहा अपि प्रजासर्जनं कृत्वा तेभ्यः कर्तव्यपालनस्य आज्ञा प्रदत्ता । तात्पर्यम् अस्ति यद्, कर्मयोगस्य परम्परा अर्थात् निःस्वारअथभावेन कर्तव्यपालनस्य परम्परा आदिकालेदव चलति, तत्र किमपि नाविन्यं नास्ति इति ।

चतुर्थेऽध्याये परमात्मप्राप्तेः यानि साधनानि भगवान् प्रदर्शयति, तेषां सर्वेषां 'यज्ञः' इत्यनेन पदेन एव उल्लेखः कृतः । यथा – द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, प्राणायामः इत्यादयः । सामान्यतः लोके 'यज्ञः' इत्यस्य पदस्य पूजाविधिना सह एव सम्बन्धः प्रसिद्धः । परन्तु गीतायां 'यज्ञः' इत्यस्य शब्दस्य शास्त्रविधना क्रियमाणानैः विहितकर्मभिः सह सम्बन्धः उक्तः । वर्ण-आश्रम-धर्म-जाति-स्वभाव-देश-कालानुगुणं प्राप्तं कर्तव्यकर्म 'यज्ञः' इत्यस्मिन् अन्तर्भवति । अन्यहिताय क्रियमाणानि सर्वाणि कर्माणि अपि अत्र 'यज्ञः' इत्येव उच्यन्ते । एवं यज्ञस्य (कर्तव्यस्य) दायित्वं मनुष्यस्योपरि अस्ति ।

'अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्' – युज् + क्त इति कृते 'इष्ट' इति शब्दः निष्पद्यते । एषः शब्दः अपि यज्ञशब्दवाचकः (कर्तव्यकर्मवाचकः) एव । कमु + अण् इति कृते 'काम' इति शब्दः व्युत्पद्यते । एषः शब्दः पदार्थवाचकः । विश्वौहा मनुष्याः उपदिश्यन्ते यद्, यूयं स्वस्य कल्याणेन सर्वेषां वृद्धिम्, उन्नतिं च कुर्यास्त । एवं कृते कर्तव्यपालने याः सामग्र्यः अपेक्ष्यन्ते, ताः स्वयमेव प्राप्स्यन्ते इति । अर्जुनस्य अकर्मणि एव रुचिः आसीत्, अतः भगवान् निराकरणाय प्रजापतेः वचनस्यापि उल्लेखं कृत्वा कर्तव्यकर्मणः शिक्षणं यच्छति । अपरेषां हिताय कर्तव्यकर्मणि कृते मनुष्यस्य लौकिकी, पारलौकिकी च उन्नतिः शक्या अस्ति । निष्कामभावेन केवलं कर्तव्यपालनपूर्वकं कर्मणि कृते सति मनुष्यः मुक्तः भवति । प्रत्युत सकामभावेन कर्मणि कृते सः बद्धः भवति । प्रस्तुते प्रकरणे निष्कामभावेन क्रियाणानां कर्मणां वेवेचनं जायमानम् अस्ति । अतः अत्र 'इष्टकाम' इत्यस्य पदस्य उपयोगः जातः । अर्थात् इच्छितभोगसामग्री इति अर्थः उचितः न अपि तु यज्ञाय आवश्यकसमाग्री इति उचितः मन्यते । पूर्वस्मिन् श्लोके भगवान् यज्ञं विहाय सर्वाणि कर्माणि सकामभावयुक्तानि इति कथयति । तथा तानि कर्माणि बन्धिकारिणी इत्यपि बोधयति । त्रयोदशेऽध्याये अपि भवान् सकामभावेन कर्म कृत्वा मनुष्यः पापम् एव भक्षति इति कथयिष्यति । एवम् एतस्मात् श्लोकात् पूर्वास्मात् सकामभावनात्यागस्य विषयः आरब्धः अस्ति, सः विषयः अग्रेऽपि चलिष्यति । एवं मध्ये अर्थात् एतस्य अध्यायस्य दशमे, एकादशे, द्वादशे च श्लोकेषु अपि सकामभावनात्यागस्य एव विषयः स्वीकर्तव्यः भवति । यदि मध्ये अत्र 'इष्टकामः' इत्यस्य पदस्य अर्थः 'ईप्सितपदार्थाः' इति कुर्मः, तर्हि विषयविरुद्धं भविष्यति । यतो हि भगवतः मते तु इच्छितपदार्थप्राप्त्यै क्रियामाणानि कर्माणि बन्धनकारिणी सन्ति । अतः 'इष्टकामः' इत्येनेन पदेन 'कर्तव्यपालनम्' इत्येव अर्थः स्वीकर्तव्यः ।

कर्मयोगी अन्येषां सेवायै, हिताय च सर्वदा तत्परः भवति । अतः विश्वौहः वचनानुसारं तस्मै कर्मयोगिने शरीरनिर्वाहावश्यकानां वस्तूनां कदापि न्यूनता न भवति । कर्तव्यपालनाय सर्वेभ्यः याः सामग्र्यः अपेक्ष्यन्ते, ताः सर्वेषां कृते उपलब्धाः भवन्त्येव । विश्वौहः वचनं कदापि निष्फलं न भवति, यतो हि यदा विश्वौहा कर्तव्यपालनस्य उपदेशः दत्तः आसीत्, तदा कर्तव्यपालनसामग्रीणां दायित्वं स्वयं स्वीकृतम् आसीत् । वास्तव्येन मनुष्यशरीरं भोगा नास्त्येव । अत एव न कस्मिंश्चित् शास्त्रे 'सांसारिकसुखस्य उपभोगं कुर्वन्तु' इति विधानं प्राप्यते । समाजः अपि स्वच्छन्दतया भोगोपभोगाय न आज्ञापयति । प्रत्युत अन्येषां सुखाय कर्तव्यपालनार्थं शास्त्रं, समाजः च उभौ आज्ञापयतः । यथा पुत्रस्य पालनं पिता कुर्यात् इति विधानं तु प्राप्यते । परन्तु पुत्रेण पिता स्वसेवां कारयेत् इति कुत्रापि न प्राप्यते । कर्मयोगी सर्वदा दानभावी भवति । यतो हि स्वीकरणे बन्धनम् अस्ति । अतः एव विश्ववाड् कथयति यद्, काम् अपि कामनाम् अकृत्वा एव मनुष्यः स्वस्य उन्नतिं साधयितुं शक्नोति इति ।

शाङ्करभाष्यम्

इतश्चाधिकृतेन कर्म कर्तव्यं-सहेति। सहयज्ञा यज्ञसहिताः प्रजास्त्रयो वर्णास्ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादावुवाचोक्तवान्प्रजापतिः प्रजानां स्त्रष्टा,अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिरुत्पत्तिस्तां कुरुध्वम्। एष यज्ञो वो युष्माकमस्तु भवत्विष्टकामधुगिष्टानभिप्रेतान्कामान्फलविशेषान्दोग्धीतीष्टकामधुक्।।10।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. ४ , श्लो. १३
  2. गीता, अ. १७ , श्लो. २३
  3. गीता, अ. ४ , श्लो. ३