सवायी गन्धर्व

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox musical artist सवायी गन्धर्वः (Sawai Gandharva) सुप्रसिद्धः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य गायकः आसीत् । भारवर्षस्य कर्णाटकराज्य धारवाडमण्डलस्य हुब्बळ्ळीतः १२क्रोशकदुरे कुन्दगोळः जमखण्डिसंस्थानान्तर्गतः आसीत् । एतस्मिन् स्थाने क्रि.श. १८८६तमवर्षस्य जनवरिमासस्य १९दिनाङ्के सवायी गन्धर्वः अजायत । एतस्य बाल्यनाम "रामचन्द्र गणेशा कुन्दगोळकर्" इति । पिता गणेश रावस्य जन्मस्थानं समीपे विद्यमानः ग्रामः संशि इति । माता धारवाछस्य अम्मिनहाळग्रामजा । अस्य पिता गणेश रावः बेनकनहळ्ळी नाडिगेर रङ्गनगौडस्य योजनायां कार्यं करोति स्म । सोऽपि बाल्यात् एव सङ्गीतासक्तः आसीत् । पितापुत्रौ ग्रामस्य विविधकार्यक्रमेषु स्वागतगीतं, सन्दनशोभायात्रायां भजनानि गीतानि च गायन्ति स्म ।

बाल्यं शिक्षा च

प्राथमिकशिक्षां स्वग्रामे एव समापितवान् । प्रौढविद्याभ्यासः हुब्बळ्ळीनगरस्य ल्यामिङ्ग्टन् प्रौढशालायाम् अभवत् । प्रतिदिनं रैलयानेन गमनागमनं भवति स्म । मातुः मरणस्य कारणेन मातृभगिन्याः आश्रये नाडिगेरवाडाप्रदेशे एव न्यवसत् । अतः प्रौढशलाशिक्षात्यागः अभवत् । किराणा घराणायाः आद्यप्रावर्तकः उस्तादः अब्दुल् करीम् खानः स्वशिष्यं नानासाहेब नाडिगेरं द्रष्टुं कदाचित् कुन्दगोळप्रदेशम् आगच्छति स्म । तत्र एव रामभावु इत्यस्य परिचयः भूत्वा शास्त्रीयसङ्गीतदीक्षाम् अयच्छत् । तत्र एव इतस्ततः सञ्चरतः बालकस्य सङ्गीतासक्तिं ज्ञात्वा खानमहोदयः बालकं स्वेन सह मिरजनगरम् अनयत् । तदानीन्तने काले आग्रा, किराणा, जैपुर, ग्वालियर्, पाटियाल, इन्दोर इत्यद्याः घराणाः प्रसिद्धाः आसन् । किराणा घराणा तु स्वरप्रधाना घराणा, आग्राघराणायां लयस्य प्राधान्यम्, अन्यघराणाः स्वरलययोः प्राथन्यं भवति ।

अब्दुल् करीं खान्

करीं खानः देहलीनगरस्य समीपस्थे किराना इति ग्रामे अजायत । कालन्तरेण मीरज् प्रदेशे न्यवसत् । खानः सङ्गीतप्रसारार्थं मिरज़्, पुणे, मैसूरु, बेळगावी,नगरेषु आचार्य सङ्गीतविद्यालयः इति नाम सङ्गीतशालां प्रचालयति स्म । अस्य शिष्या ताराबायी एव अस्य पत्नी अभवत् । प्राचीनशैल्याः अस्मिन् गुरुकुले प्रत्येकं शिष्येण ८वर्षाणि निरन्तरं सङ्गीताभ्यासं करोमि इति सन्धिप्रत्रे हस्ताक्षरं करणियम् आसीत् । तत्र सङ्गीतशिक्षा अतिविशिष्टा असीत् । प्रतः अपराह्णः, सायं च तोडि, मुल्तानी, पूरिया इति रागत्रयस्य अभ्यासः करणीयः आसीत् । सङ्गीतशिक्षायाः पश्चात् उदरपोषणार्थं नाटकसमवायं प्रविष्टवान् । तस्मिन् काले सङ्गीतनाटकेषु प्रसिद्धः बालगन्धर्वस्य अपेक्षया अभिनये सङ्गेते च दशाङ्गुलधिकः इति रामभावु कुन्दगोळकरः सवायी गन्धर्वः इत्येव अभिधानं प्राप्तवान् । मैसूरु, महाराष्ट्रम्, उत्तरकर्णाटकस्य भागेषु च अस्य अव्याहतः सङ्गीताभ्यासः प्राचलत् । स्वरप्रस्तारेषु नियन्त्रणं साधयित्वा अनेकहोराकालं कार्यक्रमं प्रदर्शितवान् । ख्यातः सङ्गीतविद्वान् मञ्जीखानः प्रशंसितवान् । ओङ्कारनथकोलकतापरिषदि ख्यातः स्वरविद्वान् फियाज़्खानः अनन्दाश्रुणा प्रशंसाम् अकरोत् । क्रि.श. १९३२ तमवर्षतः नववर्षाणि कुन्दगोळस्य दत्तात्रेयभजनं दत्तगुरुशक्ति इति गीतवान् । पुणेपत्तनतः सपत्नीकः हुब्बळ्ळिनगरं गत्वा गङ्गूबायी हानगल् इत्यख्यायाः गृहे न्यवसत् । तत्र अस्याः कृते उन्नतस्तरस्य सङ्गीतपाठं कृतवान् । क्रि.श. १९४६तमे वर्षे सवायी गन्धर्वस्य आयुः ६०वर्षाणि । अस्य प्रियशिष्याः पुणेपत्तने गौरवार्थं सङ्गीतोत्सवान् आयोजितवन्तः । तस्मिन् काले रामकृष्ण बुव, वझे, भास्कर बुव बखले, हरिमत् खन् सहेबः, मञ्जीखान् सहेब, इत्यादयः अन्यघराणायाः ज्येष्ठसङ्गीतविद्वासः भागम् अवहन् । ग्रामोफोन् ध्वनिमुद्रिकाः अब्दुलखानस्य गीतेभ्यः पूर्वम् अस्य आगताः ।

वैवाहिकजीवनम्

अस्य पिता गदगप्रदेशस्य प्रसिद्धवैद्यकुटुम्बस्य सीताबायी इति कन्यया सह विवाहं कारितवान् । केवलेन सङ्गीतेन जीवननिर्वहणं कष्टं भवति इति निश्चित्य नाटकसमवायेषु कार्यं कर्तुम् आरब्धः । बालगन्धर्वः इति ख्यातः नारायणरावः क्रि.श. १९०८तमे वर्षे अमरावती नगरे नूतनसङ्गीतनाटकमण्डल्याम् आसीत् । हीराबायी बडोदेकर् नूतननाट्यशालायां क्रि.श. १९३२तमे वर्षे कार्यं कृतवान् । सुभद्रायाः पात्रं क्रुत्वा "किति किति साङ्गति तुवा "इति गानेन रङ्गप्रवेशं कृतवान् । अग्रपङ्क्तौ अवलोकयतः करीं खानः मूकविस्मितः अभवत् । अकस्मात् गुरुं दृष्ट्वा आश्चर्यचकितः अभवत् ।

पञ्चविंशतिवर्षीया शिष्यपरम्परा

क्रि.श. १९१६ वर्षतः १९४१ तमवर्षपर्यन्तं २५वर्षाणि शिष्यपरम्परां निर्मितवान् । वि.ए.कागल्, नीलकण्ठ बुवा, गडगोळि वेङ्कटराव, रामदुर्ग कृष्णाबायी, गङ्गूबायी हानगल्, फिरोज़् दस्तार्, भीमसेन जोशी. बसवराज राजगुरुः इत्यादयः सवायीगन्धर्वस्य कन्नडशिष्याः । क्रि.श.१९३५ तमे वर्षे गान्धिजयन्त्याः निमित्तं प्रचलिते सङ्गीतकार्यक्रमस्य अध्यक्षस्थाने वीर नारिमन् आसीत । हैदराबाद कर्णाटकमण्डली, मानपत्रम्, धरपुरस्य महाराजस्य स्वर्णपदकं, पूरियाराग पिया गुनान्त, पूरिय धनाश्री रागः,अपारकर् अरज सुनो, भौरविरागस्य बिन् देखॆ परे नाही चैन इत्यादीनां ३ध्वनिमुद्र्काः लोकार्पिताः ।

  • क्रि.श. १९३८ तमे वर्षे हुब्बळ्ळी म्यूसिक् सर्कल् वार्षिकोत्सवस्य अध्यक्षपदवी ।
  • क्रि.श. १९२९ तमे वर्षे कोलकता बेङ्गाल म्यूसिक् कान्फरेन्स विशेषगौरवेण सुवर्णपदकं दत्त्वा सम्मानितम् एव अयं कार्यक्रमः आकाशवाण्याप्रसारितः आसीत् ।
  • क्रि.श. १९२० तमे वर्षे महान् सं अबासाहेब मुजुम्दार गृहे सङ्गीतकार्यक्रमः आयोजितः आसीत् ।

नागपुरे अपूर्वप्रशंसा

सवायी गन्धर्वः तत्र सभासदानां प्रतिक्रिया प्रशंसनीया नासीत् । नागपुरे सार्वजनिकसभायां तस्य प्रियश्रोतारः सवाय् इति पदवीं दत्त्वा सममानयन् । मराठीभाषायां सवायी नाम अमितसामर्थ्यम् इति अर्थः । क्रमेण सवायिगन्धर्वस्य आरोग्यं नियन्त्रणच्युतम् अभवत् । अपि च नाटकसमवायस्य स्मामित्वमपि निरूढव्यम् अभवत् । व्यवाहरे अचतुरः सवायीगन्धर्वः अन्ते स्वस्य गृहं भूमिं, सम्पदः च विक्रीय ऋणविमुक्तः अभवत् । क्रि.श. १९४१ तमे वर्षे नाटकप्रदर्शनेन आगतं धनं ऋणदातृभ्यः प्रत्यर्प्य ॠणमुक्तः अभवत् । यदा एषः ३०तमे वयसि आसीत् तदा अस्य पितृवियोगः अभवत् । तस्मिन् काले तस्य गुरुबन्धुः शङ्करराव सर् नायक साहाय्यम् आचरितवान् । नाटकेषु सवायिगन्धर्वस्य पुरुषभूमिकायाः पुरतः शङ्कर रावः स्त्रीभूमिकां निर्वहति स्म । एतयोः परिश्रमेण नाटकानि जनप्रियाणि अभवन् । सन्त तुलसीदासः इति नूतननाटकस्य प्रयोगविषये यदा चिन्तयन् आसीत् तदैव नाटकसमवायः आर्थदारिद्र्यात् बाधितः पिहितः अभवत् ।

परिवारः

सवायी गन्धर्वस्य एकः पुत्रः एका पुत्री चास्ताम् । पुत्रः मानसिकताया अप्रबुद्धः, पुत्री प्रमीळा डा. देशपाण्डे इति वैद्यन सह विवाहं प्राप्तसुखेन अवसत् । सवायी गन्धर्वस्य अन्तिमदिनेषु एषा एव आश्रयं साहाय्यं च दत्तवती । क्रि.श. १९४२ तमे काले गन्धर्वः पार्श्ववायुना पीडितः अभवत् । क्रि.शा. १९४६ तः १९४९ पर्यन्तं स्वशिष्यायाः गङ्गूबायी हानगल् इत्यस्याः गृहे वसन् वैद्यचिकित्सां प्राप्तवान् । २०शतकस्य समग्रधारवाडमण्डलम् रत्नसदृशानां सङ्गीतकाराणां माहाजननी अभवत् । तेषु सङ्गीतविद्वत्सु प्रमुखाः

प्रशस्तिपुरस्काराः

  • हैदराबाद कर्णाटकमण्डल्याः मानपत्रम् ।
  • धरपौरस्य महारजस्य स्वर्णपदकम् ।
  • क्रि.श. १९२८तमे वर्षे हुब्बळ्ळी म्यूज़िकल् सर्कल वाषिकोत्सवस्य अध्यक्षपदम् ।
  • क्रि.श. १९३९ तमे वर्षे कोल्कता बेङ्गाल म्यूजिक कन्फरेन्सतः विशेषस्वर्णपदकम् ।
  • देशस्य विविधाकाशवाणी केन्द्रेषु कार्यक्रमस्य प्रसरणाम् ।

नाटकप्रयोगः

कदाचित् सवायी गन्धर्वस्य नाटकसमवायः प्रतिष्टापिते स्थाने एव बालगन्धर्वस्यापि नाटकप्रदर्शनं प्रचलति स्म । तदा द्रौपदी इति नाटकं बालगन्धर्वेण प्रदर्शितं चेत् तदेव कथावस्तु स्वीकृत्य गन्धर्वः आत्मतोच इति नाटकं प्रदर्शयति स्म । दौपदीभूमिकां तत्र बालगन्धर्वः करोति अत्र रामभावू करोति स्म । अभिनये अधिकसामर्थ्यं नासीत् चेदपि अस्य किराणा घराणायाः शास्त्रीयसङ्गीतमूलभूतज्ञानम् अभिनयस्य योग्यतां समपादयत् । सवायी गन्धर्वस्य गानं श्रुत्वा बालगन्धर्वः बहुधा आकृष्टः । स्वस्य भूमिकानिर्वहणानन्तरं वर्णाभूषाः च निष्कास्य सवायी गन्धर्वस्य पात्रं सङ्गीतं च दृष्टुम् आगत्य उपविशति स्म । एवम् एतयोः मैत्रीभावः उभयोः गौरवस्य कीर्तेः धनस्य च वृद्धये कारणम् अभवत् ।

बाह्यानुबन्धाः

फलकम्:भारतस्य शास्त्रीयसङ्गीतकाराः

"https://sa.bharatpedia.org/index.php?title=सवायी_गन्धर्व&oldid=4480" इत्यस्माद् प्रतिप्राप्तम्