सर् रोनाल्ड् रास्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scientist

(कालः – १३. ०५. १८५७ तः १६. ०९. १९३२)

एषः सर् रोनाल्ड् रास् (Sir Ronald Ross) मलेरियासंशोधकः । अयं १८५७ तमे वर्षे मेमासस्य १३ दिनाङ्के भारतस्य आल्मोरप्रदेशे जन्म प्राप्नोत् । अस्य पितरौ आङ्लो-इण्डियन् आस्ताम् । एषः सर् रोनाल्ड् रास् अष्टमे वयसि प्रथमवारम् इङ्ग्लेण्ड्-देशम् अपश्यत् । अनन्तरं तस्य शिक्षणं पूर्णतया तत्रैव इङ्ग्लेण्ड्-देशे एव प्राचलत् । सः १८७९ तमे वर्षे सैण्ट्-बार्थलोम-वैद्यालये वैद्यपदवीं प्राप्नोत् । अनन्तरं नौकायां किञ्चित् कालं यावत् वैद्यरूपेण कार्यम् अकरोत् । ततः सर् रोनाल्ड् रास् १८८१ तमे वर्षे पुनः भारतं प्रत्यागत्य मद्रास् (इदानीन्तनः चेन्नैप्रान्तः) प्रान्ते भारतीय-वैद्यकीयसेवायां कार्यम् आरब्धवान् । किञ्चित् कालं यावत् कार्यार्थम् अण्डमान्-द्वीपे अपि वासम् अकरोत् एषः सर् रोनाल्ड् रास् । तत्र सः कवनानि, कादम्बरीः, नाटकानि च अलिखत् । अस्य सर् रोनाल्ड् रासस्य मलेरियारोगस्य तथा तस्य परिहारस्य विषये चिन्ता आरब्धा । मषकाणां दशनम् एव मलेरियारेगस्य कारणं स्यात् इति सः अचिन्तयत् । तस्य रोगस्य विषये अधिकाधिकानि विवरणानि अपि सङ्गृहीतवान् सर् रोनाल्ड् रास् । १८९४ तमे वर्षे यदा सः सर् रोनाल्ड् रास् विरामकाले इङ्ग्लेण्ड्-देशं गतवान् आसीत् तदा सर् प्याट्रिक् म्यान्सनस्य मेलनम् अकरोत् । सः सर् प्याट्रिक् म्यान्सन् उष्णवलयस्य रोगाणां विषये परिणतः आसीत् । सः चीनादेशे विद्यमानस्य गजपादरोगस्य (फैलेरिया) कारणीभूताः मषकाः इति विषयं संशोधितवान् आसीत् । मरेलियारोगस्य कारणीभूतानां रक्ते विद्यमानानां परावलम्बिनां जीविनाम् अभिज्ञानं कथम् इति सर् रोनाल्ड् रासम् अबोधयत् सय् प्याट्रिक् म्यान्सन् । भारतं प्रत्यागतः सर् रोनाल्ड रास् तद्विषये संशोधनम् अपि आरब्धवान् ।


एषः सर् रोनाल्ड् रास् कदापि जीवशास्त्रस्य विद्यार्थी न आसीत् एव । तथापि मलेरियारोगेण सहस्रशः जनाः यत् म्रियन्ते स्म तत् दृष्टवतः सर् रोनाल्ड् रासस्य मनसि किमपि करणीयम् इति इच्छा उत्पन्ना आसीत् । तदर्थं सः सिकन्दराबाद्-नगरे यदा सैन्यस्य वैद्यालये कार्यं कुर्वन् आसीत् तदा मषकाणां जीवनचक्रं, गुणलक्षणं सर्वम् अभ्यस्तवान् । यदा बेङ्गलूरुनगरं यदा आगतवान् तदा मषकाः एकत्र स्थिते जले सन्तानोत्पत्तिं कुर्वन्ति इति संशोधनं कृतवान् । पुनः सिकन्दराबाद्-नगरं गत्वा मलेरियारोगेण पीडितानां रोगिणां रक्तं सङ्गृह्य परीक्षां कृतवान् । तेन मषकाः मलेरियारोगस्य कारणीभूतान् परावलम्बिजीवीन् वहन्ति इति ज्ञातम् । अनाफिलिस्नामकाः मषकाः एव तान् सूक्ष्मजीवीन् वहन्ति इत्यपि सः संशोधितवान् । सः सर् रोनाल्ड् रास् स्वेन संशोधितं सर्वम् अपि इङ्ग्लेण्ड्-देशे विद्यमानं सर् प्याट्रिक् म्यान्सनम् अवदत् । सः तं विषयम् इङ्ग्लेण्ड्-देशस्य वैद्यकीयक्षेत्रे सर्वत्र प्रसारितवान् । भारतस्य सर्वकारं प्रति पत्रं लिखित्वा सर् रोनाल्ड् रासस्य संशोधनार्थम् अपेक्षितानि आनुकूल्यानि कल्पयितुम् अपि प्रार्थितवान् । तदनन्तरं मषकाणां नियन्त्रणस्य कार्यं यशस्वितया सम्पन्नम् ।

एषः सर् रोनाल्ड् रास् अस्मिन् संशोधनकार्ये बहुविधानि कष्टानि सोढवान् । बहु श्रमं चापि कृतवान् । तदर्थं १९०२ तमे वर्षे वैद्यकीये तथा शरीरक्रियाशास्त्रस्य विभागे अयं सर् रोनाल्ड् रास् “नोबेल्” पुरस्कारेण सम्मानितः । १९११ तमे वर्षे तेन “सर्” पदवी अपि प्राप्ता । तस्य नाम्नः एव “रास् इन्स्टिट्यूट्” १९२६ तमे वर्षे आरब्धम् । एषः सर् रोनाल्ड् रास् १९३२ तमे वर्षे सेप्टेम्बरमासस्य १६ दिनाङ्के इहलोकम् अत्यजत् ।

"https://sa.bharatpedia.org/index.php?title=सर्_रोनाल्ड्_रास्&oldid=2816" इत्यस्माद् प्रतिप्राप्तम्