सर्वाणीन्द्रियकर्माणि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तविंसतितमः (२७) श्लोकः

पदच्छेदः

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च अपरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

अन्वयः

अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति ।

शब्दार्थः

अपरे = अन्ये
सर्वाणि = सकलानि
इन्द्रियकर्माणि = इन्द्रियव्यापारान्
प्राणकर्माणि च = प्राणव्यापारान् च
ज्ञानदीपिते = आत्मज्ञानप्रज्वालिते
आत्मसंयमयोगाग्नौ = चित्तनियन्त्रणरूपयोगवौ
जुह्वति = प्रक्षिपन्ति ।

अर्थः

अन्ये केचन सर्वाणि इन्द्रियाणां कर्माणि तथा प्राणानां समस्ताः क्रियाः ज्ञानेन प्रकाशमाने चित्तसंयमनरूपो यो योगः तादृशे अग्नौ प्रक्षिपन्ति ।

शाङ्करभाष्यम्

किंच-सर्वाणीन्द्रियकर्माणीन्द्रियाणां कर्माणीन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चनप्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नावात्मनिसंयम आत्मसंयमः स एव योगाग्निस्तस्मिन्नात्मसंयमयोगाग्नौ जुह्यति प्रक्षिपन्ति ज्ञानदीपिते स्नेहेनेव प्रदीपिते विवेकविज्ञानेनोज्जवलभावमापादिते प्रविलापयन्तात्यर्थः।।27।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु