सर्वस्य चाहं हृदि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।'
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

सर्वस्य च अहं हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनं च वेदैः च सर्वैः अहम् एव वेद्यः वेदान्तकृत् वेदवित् एव च अहम् ॥ १५ ॥

अन्वयः

अहं सर्वस्य च हृदि सन्निविष्टः । मत्तः एव स्मृतिः ज्ञानम् अपोहनं च । सर्वैः वेदैः च अहम् एव वेद्यः वेदान्तकृत् वेदवित् च ।

शब्दार्थः

सन्निविष्टः = संस्थितः
स्मृतिः = स्मरणम्
अपोहनम् = अपहरणम्
मत्तः = मत्प्रभावात्
वेद्यः = ज्ञेयः
वेदान्तकृत् = उपनिषत्कारकः
वेदवित् = वेदाभिज्ञः ।

अर्थः

अहं सर्वेषामपि हृदये तिामि । मत्प्रभावात् एव सर्वेषां स्मृतिः ज्ञानम्, तयोः नाशश्च । अहमेव सकलैः वेदैः ज्ञेयः । अहमेव उपनिषदां कर्ता । अहमेव वेदज्ञश्च ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सर्वस्य_चाहं_हृदि...&oldid=3485" इत्यस्माद् प्रतिप्राप्तम्