सर्वतः पाणिपादं तत्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः

सर्वतः पाणिपादं तत् सर्वतः अक्षिशिरोमुखम् सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३ ॥

अन्वयः

सर्वतः पाणिपादं सर्वतः अक्षिशिरोमुखम्, सर्वतः श्रुतिमत् तत् लोके सर्वम् आवृत्य तिष्ठति ।

शब्दार्थः

सर्वतः पाणिपादम् = सर्वतोहस्तचरणम्
सर्वतःश्रुतिमत् = सर्वत्र श्रोत्रेण युक्तम्
सर्वतोऽक्षि - शिरोमुखम् = सर्वत्र नेत्रशीर्षवदनैः युक्तम्
तत् = ब्रह्म
आवृत्य = व्याप्य
तिष्ठति = वसति ।

अर्थः

तस्य ब्रह्मणः सर्वत्र हस्ताः पादाः नेत्राणि शिरांसि मुखानि श्रोत्राणि च सन्ति । तत् सकलं जगत् व्याप्य वर्तते ।


सम्बद्धसम्पर्कतन्तुः

फलकम्:Interwiki conflict



सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सर्वतः_पाणिपादं_तत्...&oldid=10986" इत्यस्माद् प्रतिप्राप्तम्