सर्वकर्माणि मनसा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य त्रयोदशः (१३) श्लोकः ।

पदच्छेदः

सर्वकर्माणि मनसा सन्न्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥

अन्वयः

वशी देही नवद्वारे पुरे सर्वकर्माणि मनसा सन्न्यस्य न एव कुर्वन् न कारयन् सुखम् आस्ते ।

शब्दार्थः

वशी = जितेन्द्रियः
देही = पुरुषः
नवद्वारे पुरे = नवद्वारसहिते शरीरे
सर्वकर्माणि = सर्वाणि कर्माणि
मनसा = चित्तेन
सन्न्यस्य = परित्यज्य
न एव कुर्वन् = किमपि अकुर्वन्
न कारयन् = किमपि अकारयन्
सुखम् = सुखेन
आस्ते = तिष्ठति ।

अर्थः

यः जितेन्द्रियः अस्ति सः पुरुषः किमपि कर्म अकुर्वन् अकारयन् च नवद्वारयुते शरीररूपे नगरे सर्वाणि अपि कर्माणि मनसा परित्यज्य सुखेन तिति । परमात्मन्येव तिति इत्यर्थः ।

शाङ्करभाष्यम्

यस्तु परमार्थदर्शी सः। सर्माणि कर्माणि कर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं कान्यं प्रतिषिद्धं च सर्वकर्माणि तानि मनसा विवेकबुद्धया। कर्मादावकर्मसंदर्शनेनसंत्यज्येत्यर्थः। आस्ते तिष्ठति सुखं त्यक्तवाङ्मनःकायचेष्टो यतिर्निरायासः प्रसन्नचित्त आत्मनोऽन्यत्र आत्मनोऽन्यत्र निवृत्तबाह्यसर्वप्रयोजन इति सुखमास्तइत्युच्यते। वशी जितेन्द्रिय इत्यर्थः। क्क कथमास्त इत्याह-नवद्वारे पुरे सप्तशीर्षण्यान्यात्मन उपलब्धिद्वाराण्यर्वाग्द्वे मूत्रपुरीषविसर्गार्थे तैर्द्वारैर्नवद्वारं

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सर्वकर्माणि_मनसा...&oldid=1658" इत्यस्माद् प्रतिप्राप्तम्