सरला ठकराल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox person


सरला ठकराल (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्याख्या भारतस्य प्रथमा विमानचालिका (Pilot) आसीत् । ई. स. १९३६ तमे वर्षे २१ वर्षस्य वयसि एव सरलया प्रथमवारं विमानं चालितम् आसीत् । तया “जिप्सी मॉथ्” नामकं विमानम् एकाकिन्या एव चालितुं साहसं कृतम् आसीत् ।

जन्म

ई. स. १९१४ तमे वर्षे देहली-महानगरे सरलायाः जन्म अभवत् [१]। सा आर्यसमाजस्य अनुयायिनी आसीत् ।

व्यक्तित्वम्

सरलायाः स्वभावः अपि तस्याः नामानुगुणः एव आसीत् । सा स्वभावे अपि सरला आसीत् । सा निर्भीका, साहसिकी च आसीत् । तया लघुवयसि एव बृहत्कार्यं कृतम् आसीत् ।

यदा तस्याः मृत्युः अभवत्, तदा तस्याः आयुः नवतिवर्षम् (९०) आसीत् । नवतिवर्षे प्राप्ते सति अपि सा स्वकार्यं स्वयमेव करोति स्म । मध्याह्ने अपि किमपि कार्यं कुर्वती आसीत् । सा समयव्यर्थम् अपि न करोति स्म ।

विवाहः

सरलायाः विवाहः षोडशवर्षस्य (१६) वयसि पी.डी. शर्मा इत्याख्येन सह अभवत्[२] । पी.डी. शर्मा देहली-महानगरे निवसति स्म । सरलायाः द्वे पुत्र्यौ स्तः । पी. डी. शर्मा विमानचालकः आसीत् । सः सन्देशविमानस्य विमानचालकः आसीत् । सः अपि प्रथमः भारतीयः आसीत्, येन सन्देशविमाने विमानचालकस्य अनुमतिः प्राप्ता । कराची-नगरतः लाहोरपर्यन्तं विमानं चालयति स्म ।

सरलायाः श्वसुरालये अधिकतमाः जनाः विमानचालकाः आसन् । अतः तेषां प्रेरणया सा अपि विमानचालिका भवेत् इति तस्याः पत्युः इच्छा आसीत् ।

ई. स. १९३९ तमे वर्षे एकस्यां विमानदुर्घटनायां पी.डी. शर्मा इत्यस्य मृत्युः अभवत् [३]भारतस्य विभागानन्तरं १९४८ तमे वर्षे मातृपितृभ्यां तस्याः पुनर्विवाहः कारितः । पी.पी ठकराल इत्याख्येन सह सरलायाः पुनर्विवाहः अभवत् । द्वितीयविवाहात्प्राक् सा लाहोर-नगरे निवसति स्म । विवाहानन्तरं सा निवासाय देहली-नगरं गतवती आसीत् ।

शिक्षणम्

लाहोर-नगरे सः मेयो-विद्यालये अधीतवती । तस्मिन् विद्यालये चित्रकलायाः अपि शिक्षणं दीयते स्म । चित्रकलायां सरलायाः विशिष्टा अभिरुचिः आसीत् । अतः सरला अपि चित्रकलां पठति स्म । कलाक्षेत्रे अपि तया डिप्लोमा-पदवी प्राप्ता आसीत् । अतः चित्रकलायामपि तस्याः महज्ज्ञानं वर्तते स्म ।

ई. स. तमे वर्षे यदा भारतं पराधीनम् आसीत् । तदा आङ्ग्लशासकैः भारतीयेभ्यः “देहली- फ्लाइङ्ग्-क्लब्” इति नामिका संस्था स्थापिता । तस्यां संस्थायां कैश्चित् जनैः एव प्रवेशः प्राप्तः आसीत् । पी. डी. शर्मा इत्याख्यः तस्यां संस्थायां प्रवेशं प्राप्तवान् ।

विवाहानन्तरं पी. डी. शर्मा इत्याख्येन तस्यां संस्थायां सरलायाः प्रवेशः कारितः आसीत् । सः तां विमानचालिकां भावयितुं निश्चितवान् । श्वसुरालये अपि सर्वैः जनैः तस्य निर्णयस्य समर्थनं कृतम् आसीत् । श्वसुरेण स्वयमेव संस्थायां सरलायाः प्रवेशः कारितः ।

तस्यां संस्थायां प्रतिहोरम् एकस्य पाठस्य ३० रुप्यकाणि अध्ययनशुल्कम् आसीत् । सरलया १००० पाठाः अधीताः । १००० पाठानन्तरं सरला उत्पतनस्य “ए” श्रेण्याः प्रमाणपत्रं प्राप्तवती[४]

तदनन्तरं सा “बी” श्रेण्याः प्रमाणपत्रं प्राप्तुम् इच्छति स्म । तेन प्रमाणपत्रेण कारणेन सा वाणिज्यिकविमानचालिका भवितुं शक्नोति स्म ।

सा “बी” श्रेण्याः प्रमाणपत्राय जोधपुर-नगरं गतवती । तत्र तया प्रशिक्षणम् आरब्धम् । किन्तु तस्याः पत्युः मृत्योः घटनया मनसि आघातः जातः । जोधपुर-नगरस्य फ्लाइङ्ग्-क्लब् अपि पिहितम् जातम् ।

तस्मिन् काले विश्वयुद्धस्य अपि आरम्भः अभवत् । अन्ते पत्युः आधारस्य, मार्गदर्शकाणां, सफलतायाः मार्गाणां च अभावेन सरलया उत्पतनस्य स्वप्नः त्यक्तः । अनन्तरं सा लाहोर-नगरं गतवती । तत्र चित्रकलायाः क्षेत्रे कार्यं कुर्वती आसीत् [५]

जीवनम्

ई. स. १९३६ तमे वर्षे सरला ‘जिप्सी मॉथ्’-नामकं विमानं चालितवती आसीत् । तदा तस्याः आयुः एकविंशतिः आसीत् । तत्पूर्वं कयाचित् अपि भारतीयमहिलया विमानं न चालितम् । अतः सा भारतस्य प्रथमायाः विमानचालिकायाः गौरवं प्राप्तवती आसीत् [६]

तस्मिन् काले विमानं विज्ञानस्य चमत्कारः ज्ञायते स्म । तद्विमानं पुरुषाः एव चालयन्ति स्म । किन्तु सरलायाः निश्चयः दृढः, साहसम् अदम्यं च आसीत् । अतः यदा साहसेन सरला विमानं चालितवती, तदा जनाः आश्चर्यचकिताः अभवन् । सम्पूर्णे भारते तस्याः साहसस्य प्रशंसा जाता ।

साम्प्रतमपि बहवः जनाः न जानन्ति यत् –“सरला ठकराल इत्याख्या विमानचालिका आसीत् । तस्याः चित्राणि समाचारपत्रे मुद्रितानि आसन्” इति ।

यदा विमानोत्पातनाय प्रशिक्षणं प्रचलत् आसीत् , तदा सरला उत्पातने समये गलपट्टं निष्कास्य सहायकाय ददाति स्म । तस्य सहायकः “राय बहादुर रूपचन्द” इत्याख्यः आसीत् । अनन्तरं सः भारतस्य राजदूतत्वेन कार्यं करोति स्म ।

एकदा “राय बहादुर रूपचन्द” इत्याख्येन सरलायाः पतिः उक्तः - “ विमानचालनसमये गलपट्टं मा निष्कासयेत् इति सरलां कथयतु । तत्पश्चात् सरला गलपट्टं धृत्वा एव विमानं चालयति स्म ।

प्रमाणपत्रस्याभावेन सा वाणिज्यविमानचालिका भवितुं असमर्था अभवत् । यदा तया तस्मिन् क्षेत्रे अग्रे कोऽपि मार्गः न प्राप्तः, तदा लाहोर-नगरं गत्वा सा “मेयो-कला-विद्यालयेन” सह संलग्ना जाता । तत्रैव सा प्रशिक्षयति स्म ।

तया चित्रकलाक्षेत्रे ख्यातिः अर्जिता । यत्र चित्रवीथीकाः भवन्ति स्म, तत्र सा स्वस्याः चित्राणां प्रदर्शनीं स्थापयति स्म [७]

अनन्तरं तया वस्त्रेषु, आभूषणेषु चापि परिकल्पना (Design) कृता । समयान्तरे तया तन्तुकार्ये अपि मुद्रणम् आरब्धम् आसीत् । २० वर्षाणि यावत् सा स्वस्याः आभूषणपरिकल्पनाम् अन्येभ्यः औद्योगिकसंस्थानेभ्यः आदधाति स्म । तस्याः बहवः क्रेतारः आसन् । तेषु ‘विजयलक्ष्मी पण्डित’ इत्याख्या अपि अन्यतमा आसीत् ।

सा कथयति स्म यत्- “प्रतिदिनं प्रातःकाले अहं मम सम्पूर्णदिनस्य कार्यस्य योजनापत्रं उत्सृजामि । यदि तस्मिन् योजनापत्रे बहूनि कार्याणि स्युः, तर्हि अहं प्रसन्ना भवामि, अन्यथा दिवसः व्यर्थः अभवत् इति अनुभवामि” इति ।

मृत्युः

ई. स. २००९ तमस्य वर्षस्य मार्च-मासस्य १५ दिनाङ्के सरलायाः मृत्युः अभवत् [८]

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

सन्दर्भाः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सरला_ठकराल&oldid=5593" इत्यस्माद् प्रतिप्राप्तम्