सरलसंस्कृतशिक्षणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


Founded: February 2014, Delhi, India

Founders: Vinod Kumar, Ganesh Hegde

Learn The Easy Way Sanskrit -सरलसंस्कृतशिक्षणम्

Educational Services (Sanskrit)

Learn The Easy Way Sanskrit provide you free open source to learn Sanskrit through Sanskrit, Hindi and English medium.

तत्रभवद्भिः संस्कृतम् अवगन्तुम् यत्र यत्र कष्टम् अनुभूयते तत्र सर्वत्र सरलसंस्कृतशिक्षणं सङ्कल्पनात्मकचित्रणद्वारा (Graphic Design) भवतां साहाय्यमाचरति इत्यत्र नास्ति संशयलेशोऽपि । तद्दिशि  आधारभूतसंस्कृतम् (Basic Sanskrit), रसमञ्जरी (शायरी), दैनिकवाक्यानि, चित्रपदकोशः, अनूदितगीतानि (Sanskrit Songs - संस्कृत गीतानि), NTA-Sanskrit NET, CTET, विषयाः, संस्कृतसम्भाषणम् (Spoken Samskrit/Sanskrit), शब्दरूपाणि (Shabdrupani), धातुरूपाणि (Dhaturupani), संस्कृतव्याकरणम् (Sanskrit Grammar), ध्वनिः, सुभाषितम् (Subhashitam), विचाराः, ई-पत्रिका इत्यादिभिः उच्चारणेन (pronunciation) सह मनोरञ्जकतया भवद्भ्यः ज्ञानग्रासप्रदानस्य एकः विशिष्टः नूतनश्च प्रयासः एषः । एतन्माध्यमेन यः कोऽपि पूर्वं संस्कृतम् अजानन् अपि शीघ्रगत्या संस्कृतम् अध्येतुं शक्नोति ।

         जनं जनं प्रति संस्कृतं प्रापयितुं सरलसंस्कृतशिक्षणम् इत्येव नाम्ना वयं कटिबद्धाः स्मः । संस्कृतभाषायाः व्यावहारिकीकरणम् (communicational language) एव महदुद्देश्यमस्ति अस्माकम् । भवत्सु तादृशाः अपि स्युः यत् संस्कृतसेवां कर्तुम् इच्छन्ति किन्तु वेदिका न लब्धा स्यात् । तर्हि सरलसंकृतशिक्षणं भवद्भ्यः संकृतसेवार्थं वेदिकां दास्यति । यदि तादृशोत्साहः भवत्सु विद्यते अथवा जालपत्रस्य विषये कोऽपि विचारः विद्यते तर्हि भवन्तः जालपत्रमाध्यमेन, ई-मेल् माध्यमेन वा अस्मान् सम्पर्कयितुं शक्नुवन्ति । पुनः इतस्ततः द्रष्टव्यं किमस्ति? आरभामहे संस्कृतसेवाम्, आनयामः अस्मत्मित्राणि अपि ।

चलच्चित्रावली (Sanskrit Videos)

अस्मिन् पिञ्जे अनूदितगीतानि ग्राफिक्-चलच्चित्र-माध्यमेन भवन्ति । यदि भवतां समीपे अनूदितगीतानि सन्ति अथवा भवन्तः गायकाः सन्ति तर्हि संकृतसेवानिमित्तम् अस्माकं सम्पर्कं कर्तुं शक्नुवन्ति । अत्र भवतां कृते सर्जनात्मकतायाः उद्घाटनं कर्तुम् अवसरः प्राप्यते । वयं तादृशगीतानां चलच्चित्रनिर्माणं कृत्वा जालपुटे स्थापयामः । अनेन कोटिशः जनाः संस्कृतगीतमाध्यमेन सरलतया संस्कृतम् अवगन्तुं शक्नुवन्ति । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम् ।

चित्रपदकोषः (Sanskrit Dictionary)

अस्मिन् पिञ्जे मनुष्य-पशु-वनस्पति-स्वर्ग-भूमि-वारि-धी-काल-शब्द-दिक्-व्योम-वनौषधादिवर्गाणां (TECHNICAL) सचित्रं पदपरिचयं प्रदर्श्य (ग्राफिक्-डिजाइन-माध्यमेन) भाषाद्वये (हिन्दी-आङ्ग्लयोः) अर्थः प्रदत्तो वर्तते । प्रत्येकं पदस्य संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम् ।

दैनिकवाक्यानि (Sanskrit Daily Sentences - Daily Sentences in Sanskrit)

अस्मिन् पिञ्जे पाकशाला, खेलाः, सम्बन्धः, साक्षात्कारः, राजनीतिः, कलाः, वेशभूषाः,चलच्चित्रम् इत्यादीनां सचित्रवाक्यानि प्रदर्श्य (ग्राफिक्-डिजाइन-माध्यमेन) भाषाद्वये (हिन्दी-आङ्ग्लयोः) अर्थः प्रदत्तो वर्तते । प्रत्येकं वाक्यस्य संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया  संस्कृतसेवा-कार्येऽस्मिन्  भवतां समेषां स्वागतम् ।

रसमञ्जरी (Sanskrit Shayari - Shayari In Sanskrit)

अस्मिन् पिञ्जे रम्यम्, शृङ्गारः, प्रेम, औदासीन्यम्, मित्रता, भग्नहृदयम् इत्यादीनां सचित्रश्लोकान् प्रदर्श्य (ग्राफिक्-डिजाइन-माध्यमेन) हिन्द्याम् अर्थः प्रदत्तो वर्तते । प्रत्येकं श्लोकस्य संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम् ।

विचाराः (Sanskrit Thoughts - Thoughts In Sanskrit)

अस्मिन् पिञ्जे चाणक्य-बुद्ध-विवेकानन्दादीनां महतां सचित्रविचारान् प्रदर्श्य (ग्राफिक्-डिजाइन-माध्यमेन) भाषाद्वये (हिन्दी-आङ्ग्लयोः) अर्थः प्रदत्तो वर्तते । प्रत्येकं विचारस्य संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया  संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम् ।

हास्यकणिका (Sanskrit Jokes - Jokes in Sanskrit)

अस्मिन् पिञ्जे सचित्रमाध्यमेन हास्यकणिकाः प्रदर्श्य (ग्राफिक्-डिजाइन-माध्यमेन) अन्यतरभाषायाम् (हिन्द्यां/ आङ्ग्ले) अर्थः प्रदत्तो वर्तते। प्रत्येकं हास्यकणिकायाः  संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते। पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम्।

सुभाषितानि (Subhashitani)

अस्मिन् पिञ्जे सुभाषितानां सङ्ग्रहं दत्वा (ग्राफिक्-डिजाइन-माध्यमेन) भाषाद्वये (हिन्दी-आङ्ग्लयोः) अर्थः प्रदत्तो वर्तते । प्रत्येकं सुभाषितस्य  संस्कृतेन ध्वनिरूपं सम्पाद्य अनुपदमेव स्थापयिष्यते । पिञ्जेऽस्मिन् परिष्कारांशानां परामर्शाणाञ्च प्रतिक्रियया संस्कृतसेवा-कार्येऽस्मिन् भवतां समेषां स्वागतम् ।

Explore The Sanskrit Language in the World

Dhaturoopani | Sanskrit Dhatus | Sanskrit Shabdha | Shabdroopani | Sanskrit Dictionary | Sanskrit Grammar | Sanskrit Shayari | Sanskrit Jokes | Sanskrit Thoughts | Sanskrit Quotes | Sanskrit Topics | Sanskrit Songs | Spoken Sanskrit | Teaching Sanskrit | Subhashitam | Basic Sanskrit | Sanskrit UGC-NET, TET, PGT, TGT etc.

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सरलसंस्कृतशिक्षणम्&oldid=133" इत्यस्माद् प्रतिप्राप्तम्