सरबजित सिंह

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox criminal सरबजित सिंह (Sarabjit Singh) (Punjabi: ਸਰਬਜੀਤ ਸਿੰਘ; १९६३/६३-२ मे २०१३) भारतीयः कृषकः यश्च पाकिस्थानस्य उच्चन्यायालयेन भयोत्पादकः इति निर्दिष्टः [१][२]। १९९० तमे वर्षे लाहोर-फैसलाबादप्रदेशयोः जातस्य अग्न्यस्त्रप्रयोगात् १४ जनाः मरणं प्राप्तवन्तः । तस्मिन् कुकृत्ये सरबजितसिंहस्य पात्रमासीत् इति पाकिस्थानन्यायालयस्य वादः । किन्तु कृषकः सरबजितसिंहः सीमाप्रदेशे विद्यमानात् स्वस्य ग्रामात् अकस्मादेव पाकिस्थानं प्रविष्टवान् आसीत्, अग्न्यस्त्रप्रयोगस्य परं मासत्रयस्य अनन्तरम् ।

लाहोरस्थे उच्चन्यायालये लघुविचारणस्य अनन्तरं १९९१ तमे वर्षे तस्य कृते मरणदण्डनं घोषितम् । किन्तु सर्वकारेण तत् निरन्तरं व्याक्षिप्तम् । तेन प्रस्ताविताः ५ दयाभियोगाः न्यायालयेन, पाकिस्थानस्य अध्यक्षेण च तिरस्कृताः । किन्तु २००८ तमे वर्षे सर्वकारेण सिङ्गस्य मरणदण्डनम् अनिर्दिष्टावधिं यावत् व्याक्षिप्तम् ।

सिङ्गस्य न्यायवादिनः यैः तत्परतया दयाभियोगाः पूरिताः आसन्, तैः दृढं प्रतिपादितं यत् तेन अकृतस्य अपराधस्य निमित्तं द्वाविंशतिवर्षाणि यावत् कारागृहे स्थितम् । २०१२ तमस्य वर्षस्य जून् २६ तमे दिने घोषितं यत् पाकिस्थानस्य अध्यक्षेण सः क्षान्तः अस्ति इति । किन्तु ततः पञ्चहोराभ्यन्तरे सर्वकारेण पुनः घोषितं अत् अन्यः बन्दी सुर्जित्सिङ्गः क्षान्तः, न तु सरबजितसिंह इति।

२०१३ तमे वर्षे एप्रिल्मासे कारागृहे तस्य उपरि सहवासिनः आक्रमणम् अकुर्वन् । ततः मेमासस्य द्वितीये दिनाङ्के सः दिवङ्गतः ।

जन्म, परिवारश्च

१९६३/१९६४ तमे वर्षे भारतस्य पञ्जाबराज्यस्य तकनतारनमण्डले सरबजितसिंहस्य जन्म अभवत् । तस्य पिता श्रीसुलक्षणसिंह ढिल्लो इत्येषः उत्तर्रदेशस्य मार्गनिगमे कार्यरतः आसीत् ।[३] सः कब्बडी-क्रीडायाः उत्तमः क्रीडालुः आसीत् । परन्तु परिवारस्य आर्थिकशिथिलतायाः कारणेन सरबजितसिंहः कृषिकार्ये पितुः साहाय्यम् आरभत । तस्य पत्न्याः नाम सुखप्रती कौरि इति । तयोः विवाहः १९८४ तमे वर्षे अभवत् । तयोः द्वे पुत्र्यौ अभवताम् । तयोः नाम पूनपदीप, स्वप्नदीप इति ।

पाकिस्थानगमनस्य पृष्ठभूमिका

१९९० तमस्य वर्षस्य अगस्तमासस्य अष्टाविंशे (२८/०८/१९९०) दिनाङ्के सरबजितसिंहः मदिरायाः मदेन पाकिस्थानस्य सीमां प्रविष्टः । यतो हि तस्मिन् काले सीम्नि लोहतन्त्राणि न भवन्ति स्म, अतः सः न ज्ञातवान् एतादृशे अयोग्यप्रवेशविषये । तत्र कश्चन पाकिस्थानीयः सेनाधिकारी तं सप्तभ्यः दिनेभ्यः कारागारे अस्थापयत् । ततः तस्योपरि पाकिस्थानस्योपरि गप्तचरितायाः आरोपः आरोप्य तं न्यायालयस्य सम्मुखम् उपस्थापितः । तस्मिन् अभियोगे सः सेनाधिकारी सरबजितसिंहस्य मंजीतसिंहः इति अवास्तविकनाम्नः उपयोगं कृतवान् । एवं तस्योपरि भारतस्योपरि गुप्तचरिं कर्तुं नाम परिवर्त्य प्रवेशस्य आरोपः सुदृढः अभवत् ।

सम्बद्धाः लेखाः

उद्धरणम्

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=सरबजित_सिंह&oldid=5095" इत्यस्माद् प्रतिप्राप्तम्