सम् (उपसर्गः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


सम्सम्यक्त्वे समन्तत्वे श्लेषे कूजनवर्तने ।
         सहभावे स्मृतौ क्रोधे वृद्धिवाचिकढौकने ॥
अनिश्चये गुणाधानप्रतिज्ञात्यागसेवने ।
           क्रियान्तोद्योगनियमे विमर्शगणनाक्षये ॥
नैकट्येऽनुकृतौ प्रीतौ स्वीकारोत्पत्तिवर्जने ।
           आभिमुख्ये परिचये कालेऽल्पपरिहारयोः ॥

१ सम्यक्त्वे – सम्प्रयच्छति ।
२ समन्तत्वे – सैन्या: सम्पतन्ति । सम्राट् ।
३ श्लेषे – संयोगः । सङ्गमः ।
४ कूजने – शकटानि सङ्क्रीडन्ति ।
५ वर्तने – संयाति प्रास्थिकी स्थाली ।
६ सहभावे – सङ्घः । सम्भूय यानम् ।
७ स्मृतौ – सङ्कल्पः ।
८ क्रोधे – संरभते ।
९ वृद्धौ – सम्पत् ।
१० वाचिके – सन्दिशति ।
११ ढौकने – समाहरति । समूहते ।
१२ अनिश्चये – सन्देहः ।
१३ गुणाधाने – सस्करोति ।
१४ प्रतिज्ञायाम् – संजानीते ।
१५ त्यागे – सन्न्यसति ।
१६ सेवने – संवाहति ।
१७ क्रियान्ते – समाप्तिः ।
१८ नियमे – संयमः ।
१९ विमर्शे – संपृच्छते ।
२० गणनायाम् – सङ्कलयति ।
२१ क्षये – संहरति ।
२२ नैकट्ये – सन्निकृष्टः । समीपम् ।
२३ अनुकृतौ – पद्मसङ्काशः ।
२४ प्रीतौ – सम्भाषते ।
२५ स्वीकारे – सङ्गृह्णाति ।
२६ उत्पत्तौ – गर्भः सम्भवति ।
२७ वर्जने – सञ्चक्षा खलाः ।
२८ आभिमुख्ये – सम्मुखः ।
२९ परिचये – सम्पृच्छते ।
३० काले – समयः ।
३१ अल्पे – समर्घः ।
३२ परिहारे – समाधीयते ।
फलकम्:२२ उपसर्गाः

"https://sa.bharatpedia.org/index.php?title=सम्_(उपसर्गः)&oldid=3836" इत्यस्माद् प्रतिप्राप्तम्