समुद्रगुप्तः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:महीपाल:

समुद्रगुप्त: (३३५-३८०) भारतस्य सम्राट् आसीत्‌। सः चन्द्रगुप्तस्य पुत्रः आसीत्। तस्य अन्ये अग्रजाः अपि आसन् । परन्तु स एव पित्रा राज्यस्य रक्षणार्थं नियुक्त:।

साम्राज्यम्

सः महान् राजा आसीत्। सः प्रथमम् अहिच्छत्रस्य राजानम् अच्युतम् अजयत्। ततः सः दक्षिणभारतस्य नृपान् जितवान्। ते नृपा: गुप्तनृपाणाम् अधिपत्यम् अङ्गीकृत्य उपायनानि समर्पितवन्त: । तस्य सेना काञ्चीपुरीपर्यन्तं सञ्चलनम् अकरोत्। पश्चिमायाम् दिशि शककुशानादयः तस्य अधिपत्यम् अङ्गीकृतवन्तः। तस्य विजयानाम् उल्लेख: प्रयागे एकस्मिन् हरिशेनलिखितशिलाक्षरे वर्णित: अस्ति।

योगदानम्

सः अष्टविधाः सुवर्णनिष्काः विदधाति स्म। सः सीकाकरणे कुशलता कुशानराज्ञः गृहीतवान्। सः कलाम् विद्याम् च अरक्षत्। सः सङ्गीतविद्वान् आसीत्। सः वीणां वादयति स्म। तस्य सभायाम् अनेके विद्वांसः कवयः च आसन्। सः सनातनधार्मिकः आसीत् परन्तु सः गयायाम् बौधमठस्य निर्माणं कर्तुम् अनुमतवान् आसीत् । अस्मिन् कर्मणि अन्यधर्मान् प्रति तस्य सहिष्णुता दृश्यते।

"https://sa.bharatpedia.org/index.php?title=समुद्रगुप्तः&oldid=6405" इत्यस्माद् प्रतिप्राप्तम्