समता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुर्षु पादेषु ललितानां शब्दानामर्थानां वा तुल्यतया भणनं समता । विद्यानाथोऽवैषम्येण भणनं समता (Samata)- इत्यकथयत् । मार्गाऽभेदस्समता- इति वामनः, अविषमबन्धत्वं समता इति दण्डी च निरवोचताम् ।

वदान्यतरुमञ्जरी सुरभयश्श्रवः पारणं
गुणा विदधते सदा जगति वीररुद्रप्रभोः ।
सुधामधुरिमाधरीकरणचातुरीचुंचवो
वियच्चरतरङ्गिणीविहरदूर्मिमर्म स्पृशः ॥

"https://sa.bharatpedia.org/index.php?title=समता&oldid=5296" इत्यस्माद् प्रतिप्राप्तम्