सन्नती

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

सन्नती (Sannati) - कर्णाटकस्य गुल्बर्गामण्डले विद्यमानं तीर्थक्षेत्रम् एतत् । अत्र ८०० वर्ष प्राचीनः चन्द्रलापरमेश्वरी देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्द्रलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररूपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा भीमानदीतीरे स्थितवती अस्ति । शङ्कराचार्यः अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान् । सन्नती बैद्धानामपि पवित्रं क्षेत्रमास्ति । अत्र बौद्धधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यालयः विद्याकेन्द्राणि च (१२ शतकीयानि) अत्र आसन् ।

मार्गः

मुम्बयी-बेङ्गळूरुरेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।

बाह्यानुबन्धाः

"https://sa.bharatpedia.org/index.php?title=सन्नती&oldid=7503" इत्यस्माद् प्रतिप्राप्तम्