सन्तुष्टः सततं योगी...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
- मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः सः मे प्रियः ॥ १४ ॥
अन्वयः
यः सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः मद्भक्तः सः मे प्रियः ।
शब्दार्थः
- यः सर्वभूतानाम् = यः सर्वजन्तूनाम्
- अद्वेष्टा = अवैरी
- मैत्रः = स्निग्धः
- करुणः एव च = दयालुः च
- निर्ममः = ममताशूल्यः
- निरहङ्कारः = अहङ्कारवर्जितः
- समदुःखसुखः = क्लेशसन्तोषयोः समानः
- क्षमी = क्षमावान्
- सततम् = सदा
- सन्तुष्टः = सन्तृप्तः
- योगी = समाहितचित्तः
- यतात्मा = नियतमनस्कः
- दृढनिश्चयः = निश्चलबुद्धिः
- मयि अर्पितमनोबुद्धिः = मयि निवेशितचित्तः
- मक्तः = भगवक्तः च
- यः = यः मानवः
- सः = सः पुरुषः
- मे प्रियः = मम इष्टः ।
अर्थः
यः सर्वजन्तुषु अवैरी, स्निग्धः, दयालुः, ममताशून्यः, अहङ्कारवर्जितः, क्लेशसन्तोषयोः समानः, तितिक्षुः, सदा सन्तृप्तः, समाहितचित्तः, नियतमनस्कः, निश्चलबुद्धिः, मयि निवेशितचित्तवृत्तिः, भक्तः सः पुरुषः मम इष्टः । (सङ्गल्पात्मकं मनः, अध्यवसायात्मिका बुद्धिः)