सदृशं चेष्टते स्वस्याः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य त्रयस्त्रिंशत्तमः (३३) श्लोकः ।

पदच्छेदः

सदृशं चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

अन्वयः

ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते । भूतानि प्रकृतिं यान्ति । निग्रहः किं करिष्यति ?

शब्दार्थः

अन्वयः सरलसंस्कृतम्
ज्ञानवान् अपि ज्ञानसम्पन्नः अपि
प्रकृतेः स्वभावस्य
सदृशम् अनुरूपम्
चेष्टते कुरुते
भूतानि प्राणिनः
प्रकृतिम् स्वभावम्
यान्ति उपगच्छन्ति
निग्रहः निषेधः
किं करिष्यति किं वा विधास्यति?

व्याकरणम्

सन्धिः

  1. प्रकृतेर्ज्ञानवानपि = प्रकृतेः + ज्ञानवानपि – विसर्गसन्धिः (रेफः)

तद्धितान्तः

  1. ज्ञानवान् = ज्ञान + मतुप् । ज्ञानम् अस्य अस्मिन् वा अस्ति ।

अर्थः

ज्ञानवन्तोऽपि जन्मान्तरीयकर्मसंस्कारस्य अनुगुणमेव अस्मिन् जन्मनि प्रवर्तन्ते, किं पुनः मूर्खाः ? तस्मात् सर्वेऽपि मन्दाः स्वभावमेव अनुसरन्ति । न तेषां निग्रहः कथञ्चिदपि कर्तुं शक्यते ।

शाङ्करभाष्यम्

कस्मात् पुनः कारणात्त्वदीयं मतं नानुतिष्ठन्ति परधर्माननुतिष्ठन्ति, स्वधर्मं च नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छासनातिक्रमदोषात्, तत्राह- सद्दशमिति।सद्दशमनुरूपं चेष्टते। कस्याः? स्वस्याः स्वकीयायाः प्रकृतेः। प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमानजन्मादावभिव्यतक्तः सा प्रकृतिस्तस्याः सद्दशमेवसर्वो जन्तुर्ज्ञानवानपि किं पुनर्मूर्खः। तस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि निग्रहः किं करिष्यति मम वान्यस्य वा ।।33।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु