सञ्चारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु

सञ्चारः

सञ्चारः (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) मनुष्याणां परस्परं सम्पर्कस्य एकं साधनं वर्तते । अधिकान्तरे सञ्चाराय मनुष्यैः अनेकविधीनां प्रयोगाः कृताः । तेषु प्रयोगेषु तारप्रेषः, दूरवाणी च महत्वपूर्णा आसीत् । तारप्रेषः पश्चिमदिशि अमेरिका-देशस्य उपनिवेशवादस्य साधनम् अभूत् । वास्तविकरूपेण अमेरिका-देशस्य उन्नत्यै दूरवाणी एव कारणमासीत् । इदानीम् अपि दूरवाण्याः उपयोगः सर्वाधिकः भवति । विकासिदेशेषु उपग्रहमाध्यमेन जङ्गमदूरवाण्याः आविष्कारः अभवत् । अतः साम्प्रते काले जङ्गमदूरवाण्याः उपयोगः भवति ।[१]

अद्यतने विकासस्य गतिः बहु तीव्रा अस्ति । सर्वप्रथमः फाइबर्-तन्तूनां प्रयोगः सञ्चाराय अभवत् । विश्वस्य विकासेन सह वैज्ञानिकैः ताम्रतन्तूनाम् उपयोगः कृतः । तेन कारणेन अधिकगत्या सञ्चारः जातः । १९९०-२००० पर्यन्तं दूरसञ्चारस्य सङ्गणकेन सह विलयो जातः । तेन एकः समन्वितः जालः निर्मापितः । सः अन्तर्जालः इति प्रसिद्धः अभवत् ।[२]

स्थानीयेषु आपणेषु, गृहेषु, कार्यालयेषु, संस्थानेषु, यन्त्रागारेषु इत्यादिषु स्थानेषु सञ्चारमाध्यमेन कार्याणि भवन्ति । सम्पूर्णे विश्वस्मिन् अधिकतमानि कार्याणि सञ्चारस्य आधारभूतानि सन्ति । सञ्चारमाध्यमः अर्थात् मीडिया इति उच्यते । मीडिया इति शब्दः मीडियम् इति शब्दस्य बहुवचनम् अस्ति । अनेन माध्यमेन समाजे विचाराणाम् आदान-प्रदानं कर्तुं शक्यते । दूरभाषेण वार्तालापः, दूरदर्शने चलचित्रदर्शनं, समाचारपत्रं, आकाशवाणी इत्यादयः सञ्चारमाध्यमस्य स्वरूपाणि वर्तन्ते । एतेषां माध्यमानां विश्वस्मिन् सर्वत्र उपयोगः भवति । अतः अयं जनसञ्चार-माध्यमः अर्थात् मास्-मीडिया इत्युच्यते ।

सञ्चारस्य माध्यमं, प्रौद्योगिकी च

साम्प्रतं सञ्चारमाध्यमैः विना जीवनस्य कल्पना अपि न भवति । किन्तु तार-दूरदर्शनस्य, अन्तर्जालस्य च उपयोगः किञ्चित् समयपूर्वम् एव आरब्धः । एतेषां माध्यमानाम् उपयोगः २० वर्षात् पूर्वस्मादेव प्रचलदस्ति । जनसञ्चारमाध्यमैः प्रयोगेषु निरन्तरं परिवर्तनं जायते ।

समाचार-पत्रं, दूरदर्शनं, आकाशवाणी च कोटिजनेभ्यः प्राप्तुं शक्यते । यतः एतेषु सञ्चारेषु प्रौद्योगिकीनाम् उपयोगः क्रियते । समाचारपत्राणि टङ्कीकृतानि माध्यमानि सन्ति । एतानि नामानि सञ्चारमाध्यमेषु प्रयुक्तया प्रौद्योगिक्या सह सम्बद्धितानि सन्ति ।

प्रौद्योगिकीषु , यन्त्रेषु च परिवर्तनेन, आधुनिकतायाः कारणेन च सञ्चारमाध्यमानि जनेषु प्रेषितुं साहाय्यं प्राप्यते । एतैः सञ्चारमाध्यमैः ध्वनेः, चित्राणां च गुणवत्तायां वृद्धिर्भवति । किन्तु एतैः माध्यमेन अस्माकं जीवनस्य विचारधारायाम् अपि परिवर्तनं भवति । उदाहरणमस्ति यत् – दूरदर्शनेन विना जीवनस्य कल्पना अपि न कर्तुं शक्यते । "दूरदर्शनेन वयं विश्व-समाजस्य सदस्याः स्मः" इति मनसि स्थितम् अस्ति । अन्तरिक्षयानानां, तन्तुनां च विस्तृतजालमध्यमैः दूरं सम्प्रेषितुं शक्यते । तेन एव कारणेन वयं दूरस्थान् कार्यक्रमान् गृहे एव दृष्टुं शक्नुमः । दूरदर्शने ये केचन कार्यक्रमाः प्रचलन्तः सन्ति, तेषु अधिकतमाः कार्यक्रमाः संयुक्त राज्य अमेरिका इत्यस्मात् प्रेषिताः भवन्ति । दूरदर्शनमाध्यमेन वयं सम्पूर्णपृथिवीं निकटतया दृष्टुं शक्नुमः ।

सञ्चारमाध्यमं, धनं च

जनसञ्चारमाध्यमे उपयुक्तानि विभिन्नानि वस्तूनि बहुमूल्यानि भवन्ति । यथा दूरदर्शनकार्यालये यत्र समाचारवाचकः उपविशति तत्र दण्डदीपाः, चित्रग्राहिणी (camera), ध्वनिमुद्रणयन्त्राणि, सम्प्रेषणयन्त्राणि च बहुमूल्यानि भवन्ति ।

समाचार-कार्यालये बहवः जनाः भवन्ति । तेषां वेतनमानम् अपि निश्चितं भवति । पूर्वं लिखितम् अस्ति यत्, जनसञ्चारस्य माध्यमानि निरन्तरं परिवर्तन्ते । अतः नूतनयन्त्राणां व्यवस्थायां बहुधनस्य व्ययः अपि भवति । तेन अधिकधनस्य आवश्यकता भवति ।

यानि जनसञ्चारमाध्यमानि सन्ति, तानि सर्वाणि धनोपार्जनाय कार्यरतानि सन्ति । विभिन्नवस्तूनां विज्ञापनैः अपि धनोपार्जनं क्रियते । यथा – जङ्गमदूरवाणीनां, चाकलेहस्य, वस्त्राणां, वाहनानाम् इत्यादीनां विज्ञापनानि भवन्ति ।

सञ्चारस्य माध्यमानि, लोकतन्त्रं

लोकतन्त्रे देशस्य, विश्वस्य च विषये समाचाराणां प्रदर्शने सञ्चारमाध्यमेभ्यः महत्वपूर्णं साहाय्यं भवति । सञ्चारमाध्यमैः जनाः ज्ञातुं शक्नुवन्ति यत्, सर्वकारः कथं कार्यं करोति । समाचारमाध्यमैः जनाः अभियोगम् (Case) अपि कर्तुं शक्नुवन्ति ।

सञ्चारमाध्यमानि सर्वत्र स्वतन्त्राणि भवन्ति । किन्तु कस्मिंश्चित् समये सञ्चारमाध्यमानि स्वतन्त्राणि न भवन्ति । यदा सर्वकारेण समाचारस्य केचित् अंशाः, चलचित्रस्य कानिचित् दृश्यानि च प्रतिबन्धितानि स्युः, तदा तत् सेन्सरशिप् इति कथ्यते ।

अस्माकं जीवने प्रजातन्त्रस्य नागरिकत्वेन सञ्चारमाध्यमं महत्वपूर्णं विद्यते । यतः सञ्चारमाध्यमैः एव सर्वकारसम्बन्धिन्यः वार्ताः ज्ञायन्ते । सञ्चारमाध्यमेन निश्चीयते यत्, केषुचित् विषयेषु कार्यं कर्तुम् आवश्यकम् अस्ति । यदि सर्वकारः इच्छति यत्, कस्याश्चित् घटनायाः प्रदर्शनं मा भवेत्, तर्हि सः अवरोधितुं शक्नोति । तत् एव सेन्सरशिप् इति कथ्यते । साम्प्रतं सञ्चारमाध्यमानां, व्यापारस्य च परस्परः सम्बन्धः वर्तते । तेन कारणेन समाचार-पत्रेषु अपि तथ्यात्मकं विस्तारं पूर्णं न प्राप्यते । अतः जागरूकतायाः आवश्यकता वर्तते ।

स्थानीयसञ्चारस्य माध्यमम्

बहूनि सञ्चारमाध्यमानि लघुजनानां, निर्धनजनानां विषये समाचारं न प्रकाशयन्ति । तेन कारणेन कैश्चित् स्थानीयसमूहैः स्वयमेव सञ्चारमाध्यमानि प्रचालितानि । तदनन्तरं ते समूहाः इदानीम् अपि कार्यरताः सन्ति । बहवः जनाः आकाशवाणीमाध्यमेन कृषकेभ्यः समाचाराः प्रेषयन्ति । कृषकेभ्यः सस्यानां वर्तमानमूल्यस्य ज्ञानं भवेत् । अतः समाचारमाध्यमेन सौकर्यं भवति ।

उत्तरप्रदेशराज्यस्य चित्रकूटमण्डलस्य दलिताभिः अष्टस्त्रीभिः 'खबर लहरिया' इति नामकस्य समाचारपत्रस्य प्रकाशनं भवति । मासे वारद्वयम् एव इदं समाचारपत्रं सम्पाद्यते । तस्मिन् समाचारपत्रे बुन्देली-भाषा उपयुज्यते । समाचारपत्रेऽस्मिन् दलितानां विषयेषु, स्त्रीहिंसाविषये, राजनैतिकभ्रष्टाचारस्य विषये समाचाराः भवन्ति । कृषकाः, विक्रेतारः, पञ्चायतसदस्याः, शिक्षकाः च अस्य समाचारपत्रस्य पाठकाः सन्ति ।

उपग्रहसञ्चारः

साम्प्रते काले अन्तर्जालः पृथ्व्याः बृहत्तमः वैद्युतं जालं वर्तते । अन्तर्जालं शताधिकानां देशानां १,००० कोटिजनान् परस्परं मेलयति ।

उपग्रहैः मानवजीवनम् अनेकेभ्यः प्रकारेभ्यः प्रभावितम् अस्ति । सामान्योपयोगाय अपि जङ्गमदूरवाण्याः उपयोगः भवति । दूरदर्शने कार्यक्रमाः द्रष्टुम् अपि उपग्रहसञ्चारसेवायाः उपयोगः भवति ।[३]

उपग्रहाणां विकासे भारत-देशस्य अपि महत्वपूर्णानि योगदानानि सन्ति । आर्यभट्टेन १९७९ तमे वर्षे भास्कर-१, १९८० तमे वर्षे रोहिणी च इति नामकः उपग्रहः प्रक्षिप्तः । १९८१ तमे वर्षे जून-मासस्य अष्टादशदिनाङ्के (१८) एरियन् पैसेञ्जर् पे लोड् एक्स्पेरीमेण्ट् (APPLE) इत्ययम् उपग्रहः प्रक्षिप्तः । भास्कर, चैलिञ्जर्, इन्सेट् १-बी इत्येतैः उपग्रहैः सञ्चारः, दूरदर्शनं, आकाशवाणी च अत्यधिका प्रभाविता जाता । इदानीं दूरदर्शनेन ऋतूनां पूर्वानुमानम् अपि कर्तुं शक्यते ।[४]

साइबर् स्पेस् इन्टरनेट्

साइबर् स्पेस् विद्युता निर्मितः एकं स्पेस्-जगद् अस्ति । इदं जगत् वर्ल्ड् वाइड् वेबसाइट् इत्यादिभिः अन्तर्जालैः आवृतम् (spread) अस्ति । साइबर् स्पेस् प्रत्येकेषु स्थानेषु उपलब्धाः सन्ति । केषुचित् कार्यालयेषु, जलस्थासु नौकासु, वायौ वायुयानेषु च सर्वत्र वर्तते ।[५]

इलैक्ट्रॉनिक् जालस्य विस्तारः शीघ्रतया अभवत् । १०० कोटिः जनाः अन्तर्जालेन सह सम्बद्धाः सन्ति । १९५५ तमे वर्षे संयुक्तराज्य अमेरिका-देशे अन्तर्जालस्य उपभोक्तॄणां ६६ प्रतिशतम् आसीत् । ब्रिटेन-जर्मनी-जापान्-चीन्-भारत-इत्यादिषु देशेषु विश्वस्य अधिकतमाः उपभोक्तारः सन्ति ।[६]

बहवः जनाः प्रतिवर्षम् अन्तर्जालस्य प्रयोगं कुर्वन्ति । साइबर् स्पेस् जनानां समकालीनम् आर्थिकं सामाजिकं स्पेस् इतीदम् ई-सन्देशः, ई-वाणिज्यम्, ई-शिक्षा, ई-प्रशासनम् इत्यादिभिः माध्यमैः च विस्तीर्यते । समयान्तरे समयस्य, स्थानस्य च मर्यादां विना सर्वेभ्यः जनेभ्यः साइबर् स्पेस् इन्टरनेट् इत्यस्य प्राप्तिः भविष्यति ।[७]

सम्बद्धाः लेखाः

बाह्यनुबन्धाः

फलकम्:Commons

सन्दर्भः

फलकम्:Reflist फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=सञ्चारः&oldid=5596" इत्यस्माद् प्रतिप्राप्तम्