सङ्करो नरकायैव...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्विचत्वारिंशत्तमः (४२) श्लोकः ।


पदच्छेदः

सङ्करः, नरकाय, एव, कुलघ्नानाम्, कुलस्य, च । पतन्ति, पितरः, हि, एषाम्, लुप्तपिण्डोदकक्रियाः ॥

अन्वयः

सङ्करः कुलघ्नानाम् कुलस्य च नरकाय एव भवति । एषां पितरः लुप्तपिण्डोदकक्रियाः पतन्ति हि ॥

शब्दार्थः

कुलघ्नानाम् = वंशनाशकानाम्
सङ्करः = मिश्रणम्
कुलस्य = वंशस्य
नरकाय एव = नरकलोकाय एव
लुप्तपिण्डोदकक्रियाः = नष्टपिण्डजलतर्पणाः
एषाम् = एतेषाम्
पितरः = पितृदेवताः
पतन्ति = ग्लायन्ति ।

अर्थः

वर्णसङ्करः नरकस्य कारणं भवति । तेन कुलघातकाः कुलानि च नरकं गच्छन्ति । तेषां पितरः  पिण्डोदकवञ्चिताः भवन्ति । ततश्च ते नरके पतन्ति

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सङ्करो_नरकायैव...&oldid=7504" इत्यस्माद् प्रतिप्राप्तम्