संवादशाला

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


[[[प्रदीपयेमजगत्सर्वं ध्येयजीवनज्वालया]]] संस्कृतभारत्याः प्रशिक्षणप्रकल्पेषु अन्यतमः अयं संवादशालादेहलीनगर्यां एतस्य केन्द्रम् वर्ततॆ ।

संस्कृतच्छात्राणां परिचयः न तेषां वेषेण अपि तु वाण्या भवति । यदि वाण्याः संस्कृतं निस्सरति तर्हि लोके सः स्वयमेव संस्कृतच्छात्रः इति अभिज्ञानं प्राप्नोति । अपि च जनाः तं संकृतच्छात्रः इति परिचिन्वन्ति । इदानीन्तन - संस्कृतशिक्षणे यः अनुवादविधिः प्रचलति ,तस्मात् कारणात् ज्ञानवान् सन् अपि संस्कृतच्छात्रः संस्कृतसम्भाषणे समर्थः न भवति । दैनन्दिन-व्यवहारे वयं यथा सहजतया सरलतया धाराप्रवाहेण च मातृभाषया वार्तालापं कुर्मः,तथैव संस्कृतेन अपि सहजतया सरलतया धाराप्रवाहेण च सम्भाषणं सम्भवम् अस्ति ।

लोके शाला इति शब्दः बहुप्रसिद्धः । विभिन्ने अर्थे एतस्य शब्दस्य प्रयोगः भवति । विभिन्नकार्यार्थं लोके शालाः सन्ति । वयं जानीमः एव यत् सम्भाषणार्थं संवादस्य आवश्यकता भवति इति। सम्भाषणे तु संवादस्य प्राधान्यं भवति । संवादस्य अभ्यासार्थं संस्कृतेन सम्भाषणार्थं चाऽपि एका शाला देहल्यां प्रचलति। एतस्यां शालायां संस्कृतसंवादस्य प्राधान्यम् अस्ति । अतः एतस्याः शालायाः नाम संवादशाला इति । एतस्यां संवादशालायां संस्कृतसम्भाषण-यज्ञः निरन्तरं प्रचलति । {1999} नवदशशतनवनवतितमात् वर्षात् एषा संवादशाला निरन्तररूपेण प्रचलन्ती अस्ति । अत्र त्रिपुरा, नागालैण्ड, मिझोरम,अरुणाचलप्रदेशः इत्यादीनि राज्यानि विहाय भारतदेशस्य अन्येभ्यः सर्वेभ्यः राज्येभ्यः छात्राः संस्कृतानुरागिणः च संवादशालाम् आगत्य भाषाशिक्षणकौशलं प्राप्नुवन्ति । न केवलं भारतात् अपि तु विश्वस्य विभिन्नेभ्यः देशेभ्यः संस्कृतानुरागिणः अत्र आगत्य सम्भाषणशालिनः भवन्ति । अत्र छात्राणां स्तरानुगुणं भिन्नभिन्नगणे अध्ययनं प्रचलति ।

श्रवणम्, भाषणम्, पठनम्, लेखनम्, च भाषायाः यानि कौशलानि सन्ति तेषां कौशलानाम् अत्र विकासः भवति । अत्रागत्य संस्कृतस्य संस्कृतेन पठनं पाठनं च सहजतया सरलतया आकर्षकतया च कथं कर्तुं शक्नुमः इति नूतनां दृष्टिं प्राप्नुवन्ति छात्राः ।

संवादशाला मे (May) मासतः फरवरी (February) मासं यावत् निरन्तरं प्रचलति । प्रतिमासं वर्गद्वयं भवति । प्रथमवर्गः –प्रतिमासं प्रथमदिनाङ्कतः चतुर्दशदिनाङ्क-पर्यन्तं प्रचलति । द्वितीयवर्गः - प्रतिमासं षोडशदिनाङ्कतः नवविंशतिदिनाङ्क-पर्यन्तं प्रचलति ।


वर्गे भागं ग्रहीतुं वर्गारम्भदिनात् एकदिनपूर्वं वर्गस्थानं प्राप्तव्यं भवति । संवादशालायां प्रवेश-अर्हता स्नातककक्षा [शास्त्री / B.A.], स्नातकोत्तरकक्षा [आचार्यः M.A.],शोधच्छात्राः [P.H.D.] इत्यादिषु कक्षाषु अध्ययनं कुर्वाणाः छात्राः, संस्कृतशिक्षकाः, शोधकर्तारः, संस्कृतानुरागिणः च अत्र प्रवेशं प्राप्तुं अर्हन्ति । मनः बुद्धिः च अध्ययने योजनाय छात्राः वर्गे जङ्गमवाण्याः प्रयोगं न कुर्वन्ति । अपि च वर्गनियमानां पालनं कुर्वन्तः सर्वेऽपि छात्राः चतुर्दशदिनानि यावत् सम्भाषणरूपि-यज्ञशालायाम् एतस्यां संवादशालायां स्वस्य ज्ञानवर्धनं कुर्वन्तः भाषासौष्ठवं सम्भाषणकौशलं च सम्पादयन्ति ।

शिबिरस्थानम् [ पत्रसंकेतः ]

संवादशाला, दुर्गामन्दिरपरिसरः, सेवाधामविद्यालयस्य समीपॆ, मण्डोलीग्रामः, [ नन्दनगर्याः समीपॆ ] देहली- ११००९३ दूरभाषा- ०११- ६५१३५३३७, ०१२०-२६८२०५५

"https://sa.bharatpedia.org/index.php?title=संवादशाला&oldid=2344" इत्यस्माद् प्रतिप्राप्तम्