संन्यासस्य महाबाहो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः

अर्जुन उवाच -

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

अन्वयः

महाबाहो हृषीकेश केशिनिषूदन ! सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि ।

शब्दार्थः

तत्त्वम् = याथात्म्यम्
केशिनिषूदन = केशिसंहारक !
वेदितुम् = ज्ञातुम् ।

अर्थः

श्रीकृष्ण ! सन्न्यासस्य याथात्म्यं त्यागस्य च याथात्म्यं पृथक् पृथक् ज्ञातुम् अभिलषामि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=संन्यासस्य_महाबाहो...&oldid=10696" इत्यस्माद् प्रतिप्राप्तम्