षडविंशब्राह्मणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

षड्विंशब्राह्मणस्य विभाजनं प्रकारद्वयेन समुपलब्धं भवति- (१) प्रपाठकस्तथा खण्डः, ( २ ) अध्यायस्तथा खण्डः । जीवानन्दसंस्करणे सम्पूर्णग्रन्थे पञ्चखण्डा एव सन्ति, किञ्च तिरुपतिसंस्करणे ग्रन्थोऽयं षडध्यायेषु विभक्तः अस्ति । अस्य एवान्तरभागः खण्डनाम्नाऽभिहितोऽस्ति । अस्मिन् प्रारम्भिकपञ्चमाध्यायपर्यन्तं याज्ञिकविषयस्य एव वर्णनमस्ति, किञ्च अन्तिमभागस्य विषयः पूर्वभागापेक्षया भिन्न एवाऽस्ति । ब्राह्मणमिदं पञ्चविंशब्राह्मणस्यैव भागोऽस्ति । तत्कालिकधार्मिकधारणानामपि विशिष्टः सङ्केतो लभते । अभिचारकालिकालिनाम् ऋत्विजां वेशवर्णनमपि अस्ति —

‘लोहितोष्णीषा लोहितवाससो निवीता ऋत्विजः प्रचरन्ति'॥[१]

महाभाष्ये[२], काव्यप्रकाशस्य पञ्चमोल्लासे च ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति' इत्यस्य वाक्यस्यैव सङ्क्षप्तसङ्केतः प्रतीतो भवति । ब्राह्मणेभ्यः सन्ध्यावन्दनकालः अहोरात्रस्य सन्धिकाले एव दर्शितः - 'तस्माद् ब्राह्मणोऽहोरात्रस्य संयोगे सन्घ्यामुपास्ते'।[३] एवंविधस्य अन्योपादेयतथ्यानां सङ्कलनमपि वर्तते।

सम्बद्धाः लेखाः

सन्दर्भः

फलकम्:Reflist

  1. अ० ४, ख० २२
  2. १।१।२७; २।२।२४
  3. ५/५/४
"https://sa.bharatpedia.org/index.php?title=षडविंशब्राह्मणम्&oldid=867" इत्यस्माद् प्रतिप्राप्तम्