षडर्धविक्रमार्थस्य तत्त्वप्रदीपः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्रीमदानन्दतीर्थभगवत्पादाचार्यकृपाविशेषसम्पादितज्ञान-विज्ञानादिगुणगणदक्षाणां, सर्वज्ञभगवत्पादाचार्यस्यास्खलि-तानवरतवेदशास्रव्याख्यानश्रवण्समुत्खातदुः खसङ्घातानां ज्ञानामृतसमुद्रावगाहिनां लिकुचकुलशेखराणां त्रिविक्रमपण्डिता चार्यपूज्यपादानां विषये तदीयं तत्त्वप्रदीपमधिकृत्य वा किं मादृशेन लेख्यम् ?

तथापि तदीयपुत्रवरैः पण्डितप्रकाण्डैः नारायणपण्डिताचार्यैरुक्तदिशा मनोविशुध्यै चरितानुवाद इति सत्सम्प्रदायस्य स्मारितत्वेन, तत्त्वप्रदीपार्णवावगाहनप्रयासः मन्ःशुध्दिफलक इत्यावेदये विद्वत्सु । त्रिविक्रमपण्डिताचार्य इति सुप्रसिध्दोऽयं पण्डितप्रवरः द्वादशशतके सुब्रह्मण्यनामकस्य लिकुचकुलमूर्धन्यस्य तपः प्रभावाल्लब्धजन्मा भुवमलञ्चकार । एकस्तु कुरुते पुण्यं फलं भुङ्क्ते महाजनाः इत्याभाणकमत्र साकारतामगमदित्यत्र न विवदन्ति सन्तः । अस्यैव सुब्रह्माण्याचार्यस्य पुत्रप्रवरः त्रिविक्रमार्यः सप्ताष्टदिनपर्यन्तं भगवत्पादाचार्येण वादं कृत्वा स्वीकृत्य तदीयशिष्यतां, तदनुग्रहसमासादिताध्यात्मविद्यः, तत्त्वप्रदीपमन्वर्थनामकं भाष्याशयविशेषप्रकाशकं, देव्या सरस्वत्याः कण्ठाभरणप्रायम्, अस्मदर्थे प्रणिनाय ।

महात्मनोऽस्य आजन्मन एवान्यादृशी प्रतिभा आसीदिति विद्यावृध्दाः प्राहुः । अत्रैकां कथां कथयन्ति सम्प्रदायविदः-एकदा कश्चन क्षपणकः तदृहद्वारमागतः भिक्षां ययाचे । भिक्षा च प्रदायि । स तावताऽसन्तुष्टः पुनः शाकमयाचत् । तदा शाकं नासीति वक्तव्यमासीत् । परमनेन बालेनाभाणि श्रीहर्षवत्, एकः क्षपणक शाकाहर्ता बहवः क्षपणक शाकादानाः । यत्र क्षपणक बहुशाकादाः तत्र क्षपणक का शाकाशा ? इति । अत एवेमं वृत्तं मनसि निधाय नारायणपण्डिताचार्यैरभिहितम्-कलभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी इति ।

त्रिषु=वेदे-वेदाङ्गे कवितायां विक्रमः यस्येति त्रिविक्रमार्य नाम अस्य सार्थकमिति विबुधा मेनिरे । त्रिषु, पद-वा-क्य-प्रमाणेषु विक्रमः असाधारणपाण्डित्यं यस्य स त्रिविक्रमार्य इत्यपि केचित् व्याचक्षते । तदीयग्र्न्थावलोकननिपुणानां विदुषां पण्डिताचार्याणां व्याकरणशास्त्रे मीमांसाशास्त्रे वेदान्तशास्त्रे चानितरसाधारणं पाटवमासीदिति निर्विवादं ज्ञानगोचरीभवति ।

सहस्रार्थं भाष्यम्

पण्डिताचार्याणां व्याख्यानकौशलमधिकृत्य कश्चन विषयः निदर्शनतया उपस्थाप्यते । ईक्षत्यधिकरणे न चाशब्दत्वमितरसिध्दम् इति भाष्यपङ्किरस्ति । अस्य च चतुर्धा व्याख्या पण्डिताचार्यैर्निरुपिता । अयमत्र सन्दर्भः – ‘यतो वाचो निवर्तन्ते’ ‘अशब्दमस्पर्शमरुपमव्ययम्’ ‘अवचनेनैव प्रोवाच’ इत्यादिश्रुत्या शास्रप्रतिपाद्यतयोक्तं ब्रह्म अवाच्यमिति पूर्वपक्षः । ‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ इति ‘आत्मन्येवात्मानं पश्येत्’ इत्यादिश्रुतिभिः ब्रह्मणः ईक्षणकर्मत्वं (ज्ञानविषयत्वम्)सप्रमाणं श्रूयते । अतो नावाच्यं ब्रह्म इति सिध्दान्तः कृतः ।

अत्रेयमाशङ्का –यदि ज्ञानविषयत्वान्नावाच्यं ब्रह्म तर्हि अवाच्यत्वप्रतिपादिकायाः श्रुतेः का गतिः ? उच्यते-

अप्रसिध्देरवाच्यं तत् वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥ इति ।

स्मृतिः अप्रसिद्धत्वात्साकल्येन वक्तुमशक्यत्वाच्च ब्रह्म अवाच्यम् अतर्क्यम् इति कथयति, न शब्दागोचरत्वादिति स्वयमेव व्यवस्थापयति च । सति चैवं ‘सर्वे वेदा यत्पदमामनन्ति’ औपनिषदः पुरुषः’ ‘वेदैश्च सर्वेरहमेव वेद्यः’ इत्यादि श्रुतिस्मृतयः अनुकूलिता स्युः । अत्र भगवत्पादीयं वचनं – न चाशब्दत्वमितरसिध्दम् इति । अस्य एकोऽर्थः- (अ) उक्तन्यायेनावाच्यत्वप्रतिपादकश्रुतेरप्रसिध्दार्थत्वेन अशब्दत्वम् अवाच्यत्वम् इतरसिध्दं मायावादिनोऽभिप्रेतं न युक्तिपथमारोहतीति ।

(आ) श्रुतिस्मृत्याद्यवलोकनेन न ब्रह्मणोऽवाच्यत्वं प्रतिपादयितुं शक्यमिति प्राङ्निरुपितम् । आस्तां तावच्छ्र्त्या-दुचिन्ता । अशब्दत्वं ब्रह्मणोऽवाच्यत्वं इतरस्य मायावादिन एव न सिध्दमसिध्दमिति यावत् । कथम् ? शब्दगोचरत्वे शब्दाभिलपनरुपवागव्यवहाराभावप्रसङ्गः । ततश्च ब्रह्मविचारयतोर्गुरुशिष्ययोः मौनं मौढ्यं च स्यात् इत्यपरोऽर्थः ।

(इ) अन्योऽर्थः कथितः –ईक्षत्यधिकरणे मायावादिनामेवमस्ति अधिकरणरचनक्रमः- ब्रह्मणो जगत्कारणत्वपरतयोक्ताः श्रुतयः प्रधानकारणतयापि उपपत्स्यन्ते । प्रधानं त्रिगुणात्मकमेव स्वफ़िकारविषयतया सर्वशक्तमुच्यते । एवं ज्ञानकारणसत्त्वगुणात्मकत्वात् सर्वज्ञं च भवति । सत्त्वात्सञ्जायते ज्ञानं (भ.गी.१४.१७) इति गीतोक्तेः । ततश्च सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते । तस्मात्प्रधानमचेतनं चगतः कारणमिति पूर्वपक्षः । सिद्धान्तस्तु-

न साड्ख्यनयसिध्दं प्रधानं जगत्कर्तृ भवितुमर्हति । कुतः ? अशब्दं हि तत् । ‘तदैक्षत्’ ‘बहु स्यां प्रजायेय’ इति कारणस्येक्षणपूर्वकं सृष्टुत्वं श्रुतौ प्रतिपाद्यते । साड्ख्यनयसिध्दस्य प्रधानस्याचेतनत्वेन तस्येक्षणपूर्वककर्तृत्वं न सम्भवति । सम्भवति च श्रुतिप्रतिपाद्यस्य ईक्षणीयस्य ब्रह्मण इति प्रधानस्याकरणात्वे अशब्दत्वं –कारणत्वेन श्रुतिप्रतिपाद्यत्वाभावः हेतूकृतः ।

एवं यन्मायावादिना अशब्दं हि तदिति प्रधानस्याशब्दत्वं हेतुकृत्य ब्रह्मणः जगत्कर्तृत्वं सिषाधयिषितम्, तदसाधु । इतरस्य साड्ख्यस्यैव प्रधानस्याशब्दत्वं –कारणतया वेदप्रतिपाद्यत्वाभावः असिध्दः । तेन प्रधानस्य अजामेकां लोहुतकृष्णरुपां बह्वीः प्रजा इत्यादौ वेदगम्यत्वाङ्गीकारात् ।

(ई) अन्योप्यर्थः कथितः- एवम् अशब्दत्वं –श्रुत्या कारणत्वेन प्रतिपाद्यत्वाभावरुपं यन्मायावादिना प्रतिपिपादयिषितम् । तदितरस्य माया वादिन एव असिध्दम् ।कुतः ? तैरेव भगवद्गीताव्याख्याने प्रधानस्य वेदगम्यत्वाङ्गीकारात् । किञ्चायमध्यायः भगवतो गुणपूर्णत्वप्रतिपादनाय सर्वशब्दवाच्यत्वं प्रसाधयितुं प्रवृत्तः । तदितरस्य साड्ख्यप्रमेयखण्डनस्यात्र का गतिः ? समनयप्रतिपादनव्यतिरिक्तस्याध्यायार्थत्वाभावात् । एवमेवैतदधिकरणविमर्शावसरे अद्वैतव्याख्यातृणाम् अधिकरणरचनापध्दतौ अनुत्तार्याः दोषाः प्रतिपादिताः ।

अत्रैके अद्वैतवादिन आहुः ईक्षत्यधिकरणे ब्रह्म विषयः । पूर्वसूत्रे तत्तु समन्वयात् इति ब्रह्मणि शब्दानां समन्वयः प्रतिपादितः । यतो वाचो निवर्तन्ते इत्यादिश्रुत्यानुगुण्येन ब्रह्म अवाच्यमेव भवितुमर्हति । न चेयं श्रुतिः अप्रसिद्धेरवाच्यत्वाभिप्राया । ‘वाचो निवर्तन्ते’ ‘यद्वाचानभ्युदितम्’ इति वाच्यत्वस्य प्रतिषेधात् । सम्भवति वाच्यत्वप्रतिषेधरुपे मुख्यार्थे कुतोऽमुख्यार्थकल्पना । ननु श्ब्दावाच्यत्वे लक्ष्यत्वमपि न स्यादिति चेत् अत्र ब्रूमः –असम्भवादेव हि ब्रह्मणि मुख्यवृत्तेः शब्दानां लक्षणोररीक्रियते, नैवमेव । कथं ? षष्ठीगुणक्रियाजातिरुढयो हि शब्दप्रवृत्तिहेतवः । यथा –क्वचित् षष्ट्यर्थः सम्बन्धः शब्दप्रवृत्तिनिमित्तम् । यथा राजपुरुष इत्यादि । क्वचिद्गुणयोगः, यथा शुक्लः पट इत्यादि । क्वचित्क्रियायोगो यथा पाचक इत्यादि । क्वचिज्जातियोगो, यथा गौरश्वः पुरुष इत्यादि । क्वचिद्रूढिर्यथाऽऽकाशे द्युरभ्रम् इत्यादिः ।

एतेषां शब्दप्रवृत्तिनिमित्तानाम् अन्यतमस्यापि आत्मनि असङ्गत्वादगुणत्वादविक्रियत्वादसामान्यत्वात्प्रमाणान्तरायोग्यत्वेनागृहीतस्म्बन्धत्वाच्चाभावात् नाभिधेय आत्मा ।

अत्राहुः पण्डिताचार्याः- ‘स एतस्माज्जीवदघनात्परात्परं पुरिशयं पुरुषमीक्षते’ ‘यदैनमनुपश्यन्त्यात्मानं देवमञ्जसा’ इत्यादिश्रुतिषु ब्रह्मविषयमीक्षणं प्रतीयते । अप्रत्यक्षस्य तस्य न चागममन्तरेण तत्सम्भवि । श्रुत्याभिधीयमानं चेक्षणीयत्वं वाच्यत्वमन्तरा नोपपद्यत इति ब्रह्म वाच्यमेवेति निश्चिनुमहे । अवाच्यत्वस्यापातप्रतीतस्य स्मृतिसमाख्यानादप्रसिध्दार्थतोपपत्तेः । अन्यथा ‘यतो वाच’ इति श्रुतौ ब्रह्मणः, यत्पदाविषयत्वेन वेदोदितावाच्यत्वं न स्यात् ।

अपि च् ब्रह्म अवाच्यमिति वदन् ब्रह्म वक्ति न वा ? यद्याद्यपक्षकक्षीकारः तर्ह्यवाच्यत्वं विविदिषतोऽस्मदभिमतवाच्यत्वानुमोदनात्स्वव्याहत्यादिनिग्रहमहाग्राहग्रस्ततया पृथुलकथाप्रपथसागरे प्रमाणतर्कतदाभासवीचीतरङ्गमालावलोलिते निमज्जतो वादिनो निर्णयपारदर्शनं दुःशकं प्रसज्जेत । द्वितीये कस्य अवाच्यत्वमयं प्रतिजानीते ? न ह्यनभिधीयमानस्य धर्मिणो धर्मविधानमुपपद्यते ।

किञ्च ब्रह्मशब्देनापि केवलं लक्षयति, न पुनर्ब्रवीति इति चेत्, किं तल्लक्ष्यमिति वक्तव्यम् । येन केनापि वचनेनाभिधीयमाने नावाच्यत्वं स्यात् । अतो माता मे वन्ध्येत्यादिवदत्यन्तविरुध्दोऽयमीदृशः प्रलापः ।

यदप्युक्तं षष्ठ्यादीनां मुख्यवृत्तिहेतूनाम् अभावादशब्दं ब्रह्मेति । तदप्यसत् । ‘यस्सर्वज्ञः’ ‘एष सर्वेश्वरः’ ‘एष भूताधिपतिः’……….. इत्यादिश्रुतिस्मृतिभ्यः गुण-क्रिया-जाति –योग- रुढिसम्भवात् । यदि शब्दवृत्तिहेतूनामन्यतमस्याप्यभावेनावाच्यं ब्रह्म, तर्हि नैव लक्ष्यमपि स्यात् । न हि सम्बन्धादिभिर्विना लक्षणा सम्भाव्यते ।

अत्राहुरद्वैतवादिनः-स्यान्नामावाच्यस्यापि लक्ष्यत्वम् । इक्षुक्षीरगुडादिषु तावत् माधुर्यं विद्यते । नैकमेव माधुर्यं सर्वत्रानुगतमपि तु भिन्नमेव । तथापि भेदः वक्तुं न शक्यते, तद्वाचकशब्दाभावात् । तथापि लक्ष्या दृश्यन्ते । अन्यथा वागव्यवहारानुपपत्तिः यथोक्तं –

ईक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
भेदस्तथापि नाख्यातुं सरस्वत्याऽपि शक्यते ॥ इति ।

तत्र यथा माधुर्यादिविशेषाणामवाच्यत्वेऽपि प्रतीततामात्रेण लक्ष्यत्वम् , तद्वदिहापि अवाच्यस्यापि ब्रह्मणो स्वयंप्रकाशत्वेन सिध्दस्य लक्ष्यत्वं नासम्भवीति । अत्राहुः पण्डिताचार्याः –इक्षु-क्षीर-गुडादिषु नावाच्यस्य लक्ष्यत्वम् । माधुर्यविशेषशब्दवाच्यत्वादेव । विविच्यान्भिधानं, विवेकापरिज्ञाननिबन्धनम् । न् पुनरवाच्यत्वात् । सुप्रसिध्दमत्र सूदशास्त्रविदां वचनम् –

विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्षणकम् ।
गुडस्य् पनसादीनां निर्हारीत्यभिधीयते ॥ इति ॥

एवं परकीयग्रन्थजातगताभिप्रायविशेषविशदननिराकरणदक्षा गुरुपवनवचनगाम्भीर्यप्रदीपनदीक्षा च तत्त्वप्रदीपिका विदुषां चेतश्चेतयन्ती समुल्लसति ।

टिप्पणी

१. किन्तुत्तमश्लोकशिखामणीनां मनोविशुध्यै चरितानुवादः । मध्वविजयः , सर्ग. १. श्लो.७

२. सुमध्वविजयः, सर्ग .१३, श्लो.४७

३.तत्र साड्खया प्रधानं त्रिगुणमचेतनं जगतः कारणामिति मन्यमाना आहुः –यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं तत्वप्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमपि । कथम्? यत्तु ज्ञानं मन्यसे स सत्वधर्मः । सत्वात्सञ्चायते ज्ञानमित्युक्तेः ।…. त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणाभूतं सत्वं प्रधानावस्यायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते ।…. न साड्ख्यपरिकल्पितम् अचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वं ईक्षतेः । ईक्षितृत्वात्कारणस्य ।….. तदैक्षत बहुस्यां प्रजायेयेति ।…. न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति, तस्मादनुपपन्नं प्रधानं सर्वज्ञम्……….। शारीरकभाष्यम् १.१.५. p. 25 , Motilal Banarasidass Printers, Varanasi, 1976

४.शाङ्करभगवद्गीताव्याख्याने सप्तमे त्रयोदशेऽध्याये चायं विषयो विशदीकृतः । एतद्योनीनि भूतानि ७.६, अन्तर्याम्यधिकरणे न च स्मार्तमिति सूत्रे ।

५. (१) न् चाशब्दत्वमितरसिध्दमित्यस्यायमर्थः । उक्तन्यायेन वाच्यत्वात् ब्रह्मणो मायिसिध्दमशब्दत्वं च श्रुत्यर्थः । (२) अस्यैव भाष्यस्यन्योऽर्थः –न चावाच्यत्वं ब्रह्मण इतरस्य मयिनोऽपि सिध्दम् । ब्रह्मणि व्यवहारभावप्रसङ्गत् । (३) अन्योर्थः कथ्यते –यन्मायिनोक्तं प्रधानस्याशब्दत्वं हेतुत्वेनाशब्दं हि तदिति साड्ख्यं प्रति, तदितरस्य साड्ख्यस्य न सिध्दम् । तेन प्रधानस्य वेदगम्यत्वाङ्गीकारात् । न च समन्वयप्रतिपादनादन्यो व्यापारः सत्यां गतौ सम्भवत्यस्मिन्नध्याये । अत ईक्षतेर्नाशब्दमिति सूत्रं ब्रह्मणोऽशाब्दत्वनिराकरणपरमिति सिध्दम् । तत्त्वप्रदीपः p. 40 ६. षष्ठीगुणक्रियाजातिरुढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ नैष्कर्म्यसिध्दिः अ.३. श्लो.१०३,p. 168 Edited by Colonel Jacob, Bombay Government Central Book Depot, 1891

सम्बद्धाः लेखाः