श्रीरामदेवपर्वतः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीरामदेवपर्वतः (Sriramadeva Hill) कर्णाटकस्य रामनगरमण्डले विद्यमानः कश्चन पर्वतः । रामनगरतः ३कि.मी.दूरे अस्ति । बेङ्गळूरुतः प्रस्थाय रामनगरस्य प्रवेशे एव दक्षिणभागस्य मार्गे परावृत्य ३कि.मी गम्यते चेत् श्रीरामदेवपर्वतः (श्रीरामदेवरबेट्ट) प्राप्यते । पर्वतस्य आरोहणार्थं सोपानमार्गः निर्मितः अस्ति । प्राचीनचलच्चित्रस्य कारणेन अयं रामदेवपर्वतः समग्रभारते एव प्रसिद्धः । भारतीयचलच्चित्ररङ्गस्य विशेषोपलब्धिः रमेश सिप्पि निदेशनस्य शोले चलच्चित्रीकरणम् अत्र एव अभवत् । कथायाम् एतत् स्थानं रामघाड् इति नामाङ्कितम् ।

रामदेवरबेट्ट

पक्षिधाम

२०च.कि.मी.प्रदेशः सर्वकारेण सुरक्षितः । अत्र लम्बचञ्चुयुक्तस्य गृध्रस्य संरक्षणस्थानम् इति कर्णाटकसर्वकारेण उद्भुष्टम् । अत्र १५० सङ्ख्याकानाम् एतेषां विषिष्टमहाखगानां पालनं पोषणं च भवति । अत्र ८००पादपरिमिता सुन्दरी काचित् महाशिला एव पर्यटकानाम् आकर्षणकेन्द्रम् ।

"https://sa.bharatpedia.org/index.php?title=श्रीरामदेवपर्वतः&oldid=34" इत्यस्माद् प्रतिप्राप्तम्