श्रीपादरायः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Underlinked

श्रीपादरायः श्रीपादरायस्य पुरातनं नाम लक्ष्मीनारायणः इति एतस्य मातु नामः शिरियम्मा । पितुः नाम शेषगिरिआचार्यः । मुळुबागिलु एतस्य ग्रामः । शिक्षणं संन्यासदीक्षां च उभयमपि श्रीरङ्गमठस्य स्वामिना सुवर्णतीर्थेन प्राप्तम् । एतस्य विद्वत्ता दृष्ट्वा विजयनगरस्य तथा चन्द्रगिर्याः राजानौ एतस्मै उपायनं दत्तवन्तौ । एषः एतस्मिन् मठे कन्नडगीतानि गातुम् अनुकूल्यं कल्पितवान् । वेणुगीते, भ्रमरगीते, गोपालगीते एतानि श्रीपादरायेण लिखितानि कन्नडगीतानि । श्रीरङ्गमठे एतानि गीतानि पूजासमये गायन्ति । चन्द्रगिरेः महाराजः राळ्वसिंहः क्रि.श १४९७ तमे वर्षे श्रीपादरायं स्वस्य सिंहासने उपवेश्य कनकाभिषेकं कृतवान् इति वदन्ति। एषः अनेकपण्डितान् पराजय्य द्वैतमतं प्रसारितवान् । श्रीरङ्गविठ्ठ्ल इति अङ्कितनाम्ना कवितानां रचनां कृतवान् । एतस्य पदयानि सरलानि सुलभानि गम्भीरतत्वयुतानि च सन्ति । पदयानि भक्तिरसेन पूरितानि सन्ति ।

फलकम्:कर्णाटकस्य हरिदासाः

"https://sa.bharatpedia.org/index.php?title=श्रीपादरायः&oldid=1566" इत्यस्माद् प्रतिप्राप्तम्