श्रीकृष्णरामभट्टः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlemet फलकम्:Infobox settlement

फलकम्:Infobox settlement {{ Infobox settlement l name = श्रीकृष्णरामभट्टः l image_skyline =

l image_caption =

श्रीकृष्णरामभट्टस्य चित्रम्

}}

{{ Infobox settlement l name = श्रीकृष्णरामभट्टः l image_skyline =

l image_caption =

श्रीकृष्णरामभट्टस्य नृत्यम्

}}

कविपरिचयः

जयपुराजवैद्यस्य कुन्दनस्य ज्येष्ठतनयः श्रीकृष्णरामभट्टः (Srikrishnarama Bhatta) १९०५ तमे विक्रमाब्दे जयपुरे जनिं लेभे । कविना जयपुरविलासकाव्ये स्वपरिचयः प्रस्तुतः । तद्यथा-

येनाशिक्षी स जीवनाथगुरुतः काव्यप्रकाशाशयः
छन्दश्चन्दनदासतः सगणितं वैद्यागमस्ताततः ।
सूते गन्धकजारणावधि कृता येन क्रिया नैकाशः
सोऽहं नूतनकाव्यं –पञ्चककृतिः श्रीकृष्णशर्मा कविः ॥

अयं महाराजसंस्कृतमहाविद्यालये आयुर्वेदव्याख्यातृपदे कार्यं कृतवान् । कविरयं १९५४ तमे विक्रमाब्दे दिवङ्गतः ।

रचनापरिचयः

कविनैकं महाकाव्यं कच्छवंशाख्यं, जयपुरविलासं, सारशतकं, मुक्तकमुक्तावली गोपालगीतं चेति चत्वारि खण्डकाव्यानि च रचितानि । अस्य आयुर्वेदादिविषयिण्यः अन्या अपि रचनाः प्राप्यन्ते ।

कच्छवंश्महाकाव्यम्

अस्मिन् महाकाव्ये १७ सर्गाः सन्ति । अत्र कविः आमेरराज्यस्य कच्छवंश्स्थानां राज्ञां जीवनचरितम् वर्णीतवान् । अत्र अङ्गीरसो वीरःशृङ्गारादीनामङ्गत्वेन सन्निवेशो जातः । कच्छवंश्यानां भूपतिनां चरितस्य प्रामाणिकरूपेण प्रकाशने महत्वपूर्णमिदं महाकाव्यम् । कविः घटनावर्णनावसरे तिथिनामप्युल्लेखं कृतवान् । तद्यथा -

वर्षे चन्द्रार्कशैलेन्द्रे श्रावणे धवले दले ।
बभूव ह्यश्वमेधस्य प्रारभ्भो नवमीतिथौ ॥

काव्यकला

कच्छवंशमहाकाव्यं वैदर्भिरिते उत्कृष्टमुदाहरणं वर्तते । श्रीकृष्णरामस्य काव्ये भाषारामणीयकं कुत्रापि नापहीयते । अस्य पदप्रयोगपाण्डित्यं नितरां श्लाघानीयम् । नवीना रुचिरा मञ्जुला च पदशय्या सहृदयहृदयं हठात् आकर्षते ।

"https://sa.bharatpedia.org/index.php?title=श्रीकृष्णरामभट्टः&oldid=6552" इत्यस्माद् प्रतिप्राप्तम्