श्रद्धावॉंल्लभते ज्ञानं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।

पदच्छेदः

श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ॥ ३९ ॥

अन्वयः

संयतेन्द्रियः तत्परः श्रद्धावान् ज्ञानं लभते । ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति ।

शब्दार्थः

संयतेन्द्रियः = जितेन्द्रियः
तत्परः = ज्ञानपरः
श्रद्धावान् = आस्थावान्
ज्ञानम् = आत्मज्ञानम्
लभते = प्राप्नोति
ज्ञानम् = आत्मज्ञानम्
लब्ध्वा = प्राप्य
अचिरेण = शीघ्रम्
पराम् = उत्कृष्टम्
शान्तिम् = शमम्
अधिगच्छति = प्राप्नोति ।

अर्थः

ज्ञानमार्गे आसक्तः श्रद्धावान् च जितेन्द्रियः आत्मज्ञानं प्राप्नोति । आत्मज्ञानं प्राप्य एव सः मुक्तिरूपां परमशान्तिम् अधिगच्छति ।

शाङ्करभाष्यम्

येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते-श्रद्धावानिति। श्रद्धावाञ्श्रद्धालुर्लभते ज्ञानम्। श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानोऽत आह।तत्परो गुरूपासनादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावास्तत्परोऽप्यजितेन्द्रियः स्यादित्यत आह। संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणिस संयतेन्द्रियः य एवंभुतः श्रद्धावांस्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते। प्रणिपातादिस्तु बाह्योनैकान्तिकोऽपि भवति मायावित्वादिसंभवान्नतु तथातच्छ्रद्धावत्त्वादावित्येकान्ततो ज्ञानलब्ध्यिपायः। किं पुनर्ज्ञानलाभात्स्यादित्युच्यते। ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिमुपरतिमचिरेण क्षिप्रमेवाधिगच्छति।सम्यग्दर्शनात्क्षिप्रं मोक्षो भवतीति सर्वशास्रन्यायप्रसिद्धः सुनिश्चितोऽर्थः ।।39।।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु