श्रद्धावाननसूयश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥ ७१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकसप्ततितमः(७१) श्लोकः ।

पदच्छेदः

श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥

अन्वयः

श्रद्धावान् अनसूयः च यः नरः शृणुयात् अपि सः अपि मुक्तः पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।

शब्दार्थः

श्रद्धावान् = श्रद्दधानः
अनसूयः = ईर्ष्यारहितः
शृणुयात् = आकर्णयेत्
मुक्तः = विमुक्तः
पुण्यकर्मणाम् = पवित्रकर्मणाम्
शुभान् = प्रशस्तान्
प्राप्नुयात् = गच्छेत् ।

अर्थः

यः पुरुषः श्रद्धावान् ईर्ष्यारहितश्च सन् इदं सम्भाषणं शृणोति सोऽपि सर्वेभ्यः पापेभ्यः मुक्तः पुन्यशालिनां शुभं लोकं प्राप्स्यति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=श्रद्धावाननसूयश्च...&oldid=6368" इत्यस्माद् प्रतिप्राप्तम्