श्रद्धया परया तप्तं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य (१७) श्लोकः ।

पदच्छेदः

श्रद्धया परया तप्तं तपः तत् त्रिविधं नरैः अफलाकाङ्क्षिभिः युक्तैः सात्त्विकं परिचक्षते ॥

अन्वयः

परया श्रद्धया तप्तं तत् तपः त्रिविधं भवति । अफलाकाङ्क्षिभिः युक्तैः नरैः तप्तं तपः सात्त्विकं परिचक्षते ।

शब्दार्थः

अफलाकाङ्क्षिभिः = अकामैः
युक्तैः = समाहितैः
तप्तम् = आचरितम्
त्रिविधम् = त्रिप्रकारम् ।

अर्थः

गाढश्रद्धया आचरितं तपः त्रिप्रकारं भवति । फलम् अनपेक्ष्य एकाग्रेण मनसा आचरितं तपः सात्त्विकं वदन्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=श्रद्धया_परया_तप्तं...&oldid=9539" इत्यस्माद् प्रतिप्राप्तम्