शुण्ठीरसः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

शुण्ठ्याः रसः एव शुण्ठीरसः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उच्यते । तस्याः रसः Ginger Juice इति उच्यते । शुण्ठीरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य शुण्ठीरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि शुण्ठीरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं शुण्ठीरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।

अस्य शुण्ठीरसस्य निर्माणम्

अस्य शुण्ठीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् शुण्ठीं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । अत्र शुण्ठीखण्डानां प्रमाणम् अत्यन्तं न्यूनं भवेत् अन्यथा शाकरसः अत्यन्तं कटुः भवति । अन्यशाकानां रसस्य निर्माणे एवं नास्ति ।

शुण्ठीरसः
शुण्ठी
सञ्चिका:Prometheus Springs Lemon Ginger.jpg
शुण्ठी-निम्बूकमिश्रितः रसः
कूप्यां संरक्षितः शुण्ठीरसः

"https://sa.bharatpedia.org/index.php?title=शुण्ठीरसः&oldid=6812" इत्यस्माद् प्रतिप्राप्तम्