शुण्ठीकषायम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
शुण्ठी

शुण्ठ्या निर्मितं कषायम् एव शुण्ठीकषायम् । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति वदन्ति ।

अस्य शुण्ठीकषायस्य प्रयोजनानि

१ शुण्ठीकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, शिरोवेदना, कफः इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
२ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् शुण्ठीकषायं पातुं शक्यते ।

शुण्ठीकषायस्य निर्माणम्

शुण्ठीं प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, जीरिकाचूर्णं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=शुण्ठीकषायम्&oldid=4494" इत्यस्माद् प्रतिप्राप्तम्