शिवाजी जयन्ती

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
Shivaji Maharaj

स्वाभिमानिनः वीरपुरुषस्य शिवाजीमहाराजस्य जयन्ती महोत्सवं भारतदेशे विशेषतः महाराष्ट्रराज्ये वैभवेन आचरन्ति । शिवाजीमहाराजः धैर्यशाली, साहसी, दैवभक्तः च आसीत् । भारतीयानाम् अभिमानिनां शिवाजीमहाराजः आदर्शवान् अस्ति ।

शिवाजी शिवनेरुदुर्गे क्रिस्तशके १६३० तमे वर्षे अक्षयतृतीयादिने जन्म लब्धवान् । अस्य पिता षाहजी माता च जीजाबायी । षाहजी बिजापूरसुल्तानस्य आस्थाने प्रशासकः आसीत् । वीरमाता जीजाबायी पुत्राय धैर्यं, साहसं, न्यायनिष्ठां सत्यं प्रेम च उपदिष्टवती । रामायणमहाभारतादि कथासु स्थितानां वीराणां कथां कथितवती । एवं बाल्ये एव शिवाजी धीरः साहसिकः अभिमानावान् अभवत् । शिवाजीमहाराजस्य श्रीदादाजी कोण्डदेवः आदर्शगुरुः आसीत् ।

षोडशे वयसि शिवाजी तोरणगडदुर्गं जितवान् । ग्रामीणैः युवकैः बलिष्ठसेनां सङ्घटितवान् । तोरणागडदुर्गे केसरिध्वजं स्थापितवान् । तोरणगडदुर्गे कार्यं कर्तुम् आरम्भम् कृतवान् । तदा भूमौ स्वर्णराशिः लब्धः अभवत् । शिवाजी इव सर्वे युवसैनिकाः अपि देशाभिमानिनः निस्वार्थाः आसन् । शिवाजी भण्डारे स्वर्णराशिः सम्मिञ्चितः अभवत् ।

अनन्तरं शिवाजी एकैकशः सिंहगड, जावळीकोङ्कण सूरत औरङ्गाबाद ([महाराष्ट्रराज्यम्|) इत्यादिषु अधिकारं स्थापितवान् । श्रीसमर्थरामदासः शिवाजी महोदयस्य आध्यात्मिकगुरुः आसीत् । क्रिस्तशके १६७४ तमे वर्षे भारतदेशे छत्रपतिः इति ख्यातः मराठासाम्राज्यस्य स्थापनं कृतवान् । भारतीय प्रशासनस्य रीतिं शिवाजी स्वीकृतवान् ।

शिवाजीमहोदयस्य प्रथमः गुरुः माता जीजाबायी एव आसीत् । ‘सदा धर्मासक्तो भव’ इत्युपदेशं कृतवती जीजाबायी वीरमाता इति ख्याताभवत् । गुरोः समर्थ रामदास्य, सन्तनुकारामस्य च उपदेशाः शिवाजीमहाराजे अतीव प्रभावं कृतवन्तः । शिवाजी महाराजः दक्षप्रशासकः राज्ये उत्तमतया प्रशासनं कृतवान् । राज्यस्य अभिवृध्दये विभागानुसारम् अष्टप्रधानानां नियुक्तिं कृत्वा सर्वरीत्या श्रेष्ठं कार्यं कृतवान् । २८ तमे वर्षे शिवाजी ४० दुर्गाणि वशीकृतवान् । श्वङ्गयुध्दे अश्वारोहणे च कुशलः स्वतः सैनिकान् प्रचोदयति स्म । स्वर्णसिंहासनारुढः शिवाजी छत्रपतिः इति प्रख्यातः अभवत् । बिजापुरस्य सुल्तानः शिवाजीमहाराजस्य पितरं बन्धितवान् शिवाजी तदा दिल्ली सुल्तानाय पत्रं लिखित्वा षाहजीं बन्धमुक्तं कृतवान् । दिल्लीसुल्तानतः बिजापूरसुल्तानः भीतः षाहजिनं मोचितवान् । शिवाजि महाराजः हननं कर्तुम् आगतम् अफजलखान् महोदयं दत्त्वा सेनापतिं सिध्दिचौहारं वञ्चितवान् ।

दिल्लीबादशाहतः शिवाजी हन्तुमागतं शाहिस्तेखान् महोदयं पराजितवान् । शिवाजी सर्वत्र विजयी अभवत् । सूरतनगरतः धनानि अपहृतवान् । एतेन औरङ्गजेबः दिल्लीबादशाहः क्रुध्दः अभवत् । शिवाजिनं नियन्त्रितुं राजानं जयसिंहम् औरङ्गजेबः प्रेषितवान् ।

राजा जयसिंहः बिजापूर सुल्तानं स्वपक्षीयं कृत्वा समयं निरीक्षमाणः आसीत् । तस्य सेनापतिः दिलेरखान् पुरन्दरगडम् आक्रान्तवान् । तत्समये जयसिंहाय शिवाजी पत्रमेकं लिखित्वा सन्धिं कृतवान् । स्वतः दिल्लीबादशाहस्य विधेयः भवामि इति पत्रे लिखित्वा प्रेषितवान् । शिवाजी गुलामः सेवकः इव नटन् औरङ्गजेबं मारितुं आलोचितवान् । औरङ्गजेबः अपि शिवाजीं सम्भ्रमेण एव स्वागतं कृतवान् । सदा दूरे एव तिष्ठति स्म । यथा कथंचित् शिवाजीं मारितुम् औरङ्गजेबः निश्चितवान् आसीत् ।

शिवाजी दिल्लीनगरे गृहबन्धने स्थितः इवासीत् । ज्वरेण पीडितः इव मराठासैनिकान् शिवाजी समीपे स्थापितवान् । तदा नगरे दिल्लीबादशाहस्य अनुमतिं स्वीकृत्य मधुरभक्ष्यान् जनेभ्यः वितरितुं शिवाजी योजितवान् । ज्वरनिवारणाय दानमेतत् शिवाजी करोति इति वार्ता प्रसारिताऽभवत् ।

एकस्मिन् दिने औरङगजेबस्य उपायानुसारं शिवाजीमहाराजस्य हननं निश्चितमासीत् । सर्वं गुप्ततया कार्यं प्रचलति स्म । तद्दिने प्रातः काले एव शिवाजी सम्भाजी च मधुरखाद्यपात्रेषु आविश्य बन्धनात् निर्गतौ रक्षकजनाः मधुरखाद्यपात्रेषु कतिपयानेव परीक्ष्य त्यक्तवन्तः । एवं नगरात् बहिरागत्य ततः बहुदूरं गतवन्तौ । अनन्तरं शिवाजी आन्ध्रप्रदेश कर्णाटक मार्गतः स्वराज्यम् आगतवान् । शिवाजी परनारीसहोदरः धर्मयोधः हिन्दुसम्राट् इति च नामभिः ख्यातः आसीत् । सर्वधर्मीयान् अपि समभावेन पश्यति स्म ।

शिवाजी स्वप्रशासन काले राज्ये नवरात्रो उत्सवं वैभवेन आचरितवान् । सर्वस्य गुरुः रामदासः एव मार्गदर्शकः आसीत् । हिन्दुधर्मस्य विशाल गुणस्य सर्वत्र प्रसारं कृतवान् । महाराष्ट्रियजनाः स्वराज्यस्थापकं हिन्दूधर्मसंरक्षकम् अभिमानेन स्मरन्ति । सदा “शिवाजी महाराजकी जै” जयघोषः महाराष्ट्रे श्रोतुं साध्यमस्ति । महान् धीरः शूरः साहसी शिवाजी क्रिस्तशके १६८० तमे वर्षे दिवङ्गतः अभवत् । शिवाजीमहाराजस्य स्मरणेनैव जनाः उत्साहिताः भवन्ति । अतः एव शिवाजीजयन्तीं वैभवेन आचरन्ति ।

"https://sa.bharatpedia.org/index.php?title=शिवाजी_जयन्ती&oldid=9391" इत्यस्माद् प्रतिप्राप्तम्