शिवराज सिंह चौहान

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox officeholder

शिवराज सिंह चौहान (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) मध्यप्रदेशराज्यस्य मुख्यमन्त्री अस्ति । अयं स्वतन्त्रभारतस्य सफलमुख्यमन्त्रिषु अन्यतमः वर्तते । अयं भारतीय जनता पार्टी पक्षस्य नेता, राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठकार्यकर्ता च अस्ति ।

जन्म परिवारश्च

शिवराज सिंह चौहान इत्याख्यस्य जन्म १९५९ तमे वर्षे मार्च-मासस्य पञ्चमे दिनाङ्के (५ मार्च १९५९) मध्यप्रदेशराज्यस्य सीहोरमण्डलस्य जैत-ग्रामे अभवत् । तस्य पितुः नाम प्रेम सिंह चौहान, मातुः नाम सुन्दरबाई चौहान अस्ति ।

बाल्यम्

शिवराज सिंह चौहान इत्याख्यस्य जन्म कृषकपरिवारे अभवत् । पुरा अस्य व्यवसायः अपि कृषिः एव आसीत् । राजनीतिक्षेत्रे अपि तस्य अभिरुचिः आसीत्, अतः विद्यार्थिकालादेव सः राजनीतिक्षेत्रेण सह संलग्नः अभवत् ।

शिक्षणम्

शिवराज सिंह इत्ययं भोपाल-नगरस्य बरकतुल्ला-विश्वविद्यालयात् स्नातकोत्तरं पदवीं प्राप्तवान् अस्ति । तेन दर्शनशास्त्रे स्वर्णपदकेन सह स्नातकोत्तरपदवी प्राप्ता अस्ति । १९७५ तमे वर्षे सः मॉडल् हाईयर् सेकण्डरी स्कूल् इत्यस्य विद्यार्थिसङ्घस्य अध्यक्षः आसीत् । केनचित् कारणेन विद्यार्थिजीवने सः कारावासम् अपि गतवान् आसीत् । १९७७ तमात् वर्षात् सः राष्ट्रियस्वयंसेवकसङ्घस्य (RSS) सक्रियः कार्यकर्ता अस्ति ।

विवाहः

शिवराज सिंह चौहान इत्याख्यस्य विवाहः १९९२ तमे वर्षे अभवत् । तस्य पत्न्याः नाम साधना सिंह इति । तस्य द्वौ पुत्रौ स्तः – कार्तिकेय सिंह, कुणाल सिंह च ।

व्यक्तित्वम्

शिवराज सिंह चौहान सरलः वर्तते । सः निर्धनानां साहाय्यं करोति । सः अनुसूचितजातीनां प्रगत्यै विकासाय च कार्यरतः अस्ति । तस्य कार्येषु अनेकानि वैशिष्ट्यानि सन्ति । शिवराज सिंह चौहान एकः प्रामाणिकराजनेता, स्पष्टवक्ता च अस्ति ।

सामाजिकजीवने कार्यकर्तुः व्यक्तित्वं तस्य कार्येण व्यवहारेण च ज्ञायते । शिवराज सिंह चौहान इत्याख्यस्य व्यक्तित्वं बहुमुखी अस्ति । अयं मध्यप्रदेशराज्यस्य राजनैतिके इतिहासे निरन्तरं तृतीयवारं राजनैतिकसर्वकारस्य कुशलः निर्माणकर्ता सङ्घटकश्च अस्ति । अयं भगिनीभ्यः भ्राता, बालिकाभ्यः मातुलः च अस्ति । सः श्रमिकानाम् आवश्यकतानां पूर्त्यर्थं सङ्कल्पं कृत्वा कार्यं करोति ।

प्रभावी राजनेता

शिवराज सिंह चौहान प्रभावी राजनेता अस्ति । तस्य व्यक्तित्वे दूरदर्शिता-तात्कालिकतयोः, दृढता-विनम्रतयोः, आत्मीयता-सहृदयतयोः च अद्भुतः संयोगः वर्तते । दुष्टेभ्यः वज्रात् अपि कठोरः, सज्जनेभ्यः पुष्पात् अपि कोमलः इति तस्य व्यक्तित्वस्य वैशिष्ट्यम् अस्ति ।

सामान्यजीवने शिवराज सिंह चौहान

शिवराज सिंह इत्याख्यस्य सङ्गीते गहना रुचिः अस्ति । सः धार्मिकसाहित्यानि अपि पठति । मित्रैः सह वाद-विवादस्पर्धायाम् अपि भागं वहति । प्राकृतिकस्थलानां भ्रमणे अपि तस्य रुचिः वर्तते । गीतानि, चलच्चित्राणि इत्यादीनि तस्य मनोरञ्जनस्य साधनानि सन्ति । क्रीडासु अपि तस्य अभिरुचिः वर्तते । क्रिकेट्-क्रीडा-कबड्डिक्रीडा-वॉलीबॉल् क्रीडासु तस्य रुचिः अस्ति ।

राजनैतिकं जीवनम्

शिवराज सिंह चौहान इत्याख्यस्य वंशे कोऽपि राजनेता नासीत् । सः स्वस्य व्यक्तित्वेन एव राजनीतिक्षेत्रं प्रविष्टवान् । शिवराज इत्यनेन नव(९)वर्षे लघुवयसि एव श्रमिकानां वेतनवृद्ध्यर्थं समागमः (rally) कारितः । सर्वे श्रमिकाः कर्मन्यासे (strike) उपविष्टाः आसन् । कर्मन्यासे श्रमिकानाम् इच्छा आसीत् यत् तेषां वेतनं द्विगुणं भवेत् । इदं कार्यं तस्य जीवनस्य प्रथमं राजनैतिककार्यम् आसीत् । तस्मिन् समये एकम् अभियानं प्रचलत् आसीत् । युवानः अखिल भारतीय विद्यार्थी परिषद् इत्यनेन सङ्घटनेन सह संयुक्ताः भवेयुः इति तस्य अभियानस्य लक्ष्यम् आसीत् । तेन कारणेन सर्वप्रथमं शिवराज सिंह चौहान दीर्घकालं यावत् अखिल भारतीय विद्यार्थी परिषद् इत्यनेन सङ्घटनेन सह संलग्नः आसीत् । १९७५ तमे वर्षे सः स्वस्य विद्यालयस्य छात्रसङ्घटनस्य अध्यक्षत्वेन चितः । सः छात्राणां हिताय निरन्तरं सङ्घर्षं कुर्वन् एकः प्रखरः छात्रनेता अभवत् । सः एकः लोकप्रियः नेता अपि अभवत् । राष्ट्रियविषयाणाम् उपरि अपि तेन छात्रैः सह बहूनि कार्याणि कृतानि सन्ति ।

१९७७-७८ तमे वर्षे सः अखिल भारतीय विद्यार्थी परिषद् इत्यस्य सङ्घटनस्य सङ्घटनमन्त्री आसीत् । तदनन्तरं १९७८ तः १९८० पर्यन्तं सः मध्यप्रदेशराज्यस्य अखिल भारतीय विद्यार्थी परिषद् इत्यस्य सङ्घटनस्य संयुक्तमन्त्रिपदं प्राप्तवान् । तत्पश्चात् १९८० तः १९८२ पर्यन्तं सः तस्यैव सङ्घटनस्य महासचिवपदे कार्यं कृतवान् । १९८२ तः १९८३ पर्यन्तं सः राष्ट्रियकार्यकारिण्याः सदस्यः आसीत् । ततः परं १९८४ तः १९८५ पर्यन्तं सः मध्यप्रदेशराज्यस्य भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य संयुक्तसचिवपदं, १९८५ तः १९८८ पर्यन्तं महासचिवपदं, १९८८ तः १९९१ पर्यन्तं अध्यक्षपदं च आरूढवान् आसीत् । एतेषु सर्वेषु पदेषु तेन निष्ठापूर्वकं कार्यं कृतम् आसीत् ।

१९९० तमे वर्षे शिवराज सिंह चौहान प्रथमवारं बुधनी-विधानसभाक्षेत्रस्य विधायकत्वेन चितः । ततः परं १९९१ तमे वर्षे सः विदिशा-लोकसभाक्षेत्रस्य संसद्सदस्यः अभवत् ।

तत्पश्चात् १९९१-९२ तमे वर्षे शिवराज सिंह चौहान अखिल भारतीय केसरिया वाहिनी इत्यस्य सङ्घटनस्य संयोजकपदं प्राप्तवान् । १९९२ तमे वर्षे सः अखिल भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य महासचिवपदम् आरूढवान् । १९९२ तः १९९४ पर्यन्तम् अयं भारतीय जनता पार्टी पक्षस्य प्रदेशमहासचिवपदं प्राप्तवान् । १९९२ तः १९९६ पर्यन्तं मानव संसाधन विकास मन्त्रालय इत्यस्य परामर्शदात्र्याः समितेः, १९९३ तः १९९६ पर्यन्तं श्रम एवं कल्याण मन्त्रालय इत्यस्य समितेः, १९९४ तः १९९६ पर्यन्तं हिन्दी सलाहकार नामिकायाः समितेः च सदस्यतां प्राप्तवान् ।

१९९६ तमे वर्षे शिवराज सिंह चौहान विदिशा-लोकसभाक्षेत्रात् पुनः संसद्सदस्यत्वेन चितः । १९९६-९७ तमे वर्षे नगरीय एवं ग्रामीण विकास मन्त्रालय इत्यस्य समितेः, मानव संसाधन विकास विभागस्य परामर्शदात्र्याः समितेः च सदस्यः अभवत् । १९९८ तमे वर्षे अयं तृतीयवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यत्वेन चितः । १९९८-९९ तमे वर्षे प्राक्कलन-समितेः सदस्यः अभवत् । पुनः १९९९ तमे वर्षे चतुर्थवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यः अभवत् । १९९९-२००० तमे वर्षे कृषिसमितेः, १९९९ तः २००१ पर्यन्तं सार्वजनिक उपक्रम इत्यस्याः समितेः च सदस्यतां प्राप्तवान् ।

२००० तः २००३ पर्यन्तम् अयं भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य राष्ट्रियाध्यक्षः आसीत् । अस्मिन् कार्यकाले एव सः लोकसभायाः सदनसमितेः अध्यक्षः, भारतीय जनता पार्टी पक्षस्य राष्ट्रियसचिवः अभवत् । २००० तः २००४ पर्यन्तं सञ्चारमन्त्रालयस्य परामर्शदात्र्याः समितेः सदस्यतां प्राप्तवान् । पुनः पञ्चमवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यत्वेन चितः । स्वस्य सरलस्वभावात् तस्य जीवने काऽपि बाधा न आगता । निरन्तरं तेन नूतनपदमारुह्य राज्यस्य विकासाय अनेकानि कार्याणि कृतानि सन्ति ।

२००४ तमे वर्षे शिवराज सिंह चौहान कृषिसमितेः सदस्यः, भारतीय जनता पार्टी पक्षस्य राष्ट्रियमहासचिवः, भारतीय जनता पार्टी संसदीय बोर्ड इत्यस्य सचिवः, केन्द्रीय चुनाव समिति इत्यस्याः सचिवः, लोकसभायाः आवाससमितेः अध्यक्षः च अभवत् ।

२००५ तमे वर्षे अयं भारतीय जनता पार्टी पक्षस्य प्रदेशाध्यक्षत्वेन नियुक्तः अभवत् ।

मुख्यमन्त्रित्वेन शिवराज सिंह चौहान

२००५ तमस्य वर्षस्य नवम्बर-मासस्य २९ तमे दिनाङ्के (२९/११/२००५) मध्यप्रदेशराज्यस्य राज्यपालः शिवराज सिंह चौहान इत्यनेन मुख्यमन्त्रिपदस्य शपथम् अकारयत् । सः मध्यप्रदेशराज्यस्य भूतपूर्वमुख्यमन्त्रिणः बाबूलाल गौर इत्याख्यस्य स्थाने मुख्यमन्त्रिपदं प्राप्तवान् । २००८ तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के (१२/१२/२००८) द्वितीयवारं मध्यप्रदेशराज्यस्य मुख्यमन्त्रित्वेन शिवराज सिंह चौहान चितः । २०१३ तमस्य वर्षस्य दिसम्बर-मासस्य चतुर्दशे दिनाङ्के (१४/१२/२०१३) अयं तृतीयवारं मुख्यमन्त्रिपदम् आरूढवान् । मध्यप्रदेशराज्यस्य मुख्यमन्त्रित्वेन राज्यस्य विकासाय कार्यं कुर्वन् अस्ति ।

मध्यप्रदेशराज्यस्य स्वर्णिमद्रष्टा

शिवराज सिंह इत्याख्यस्य जन्म ग्रामे अभवत् । अतः सः ग्रामस्य अर्थव्यवस्थां सम्यक्तया जानाति । तेन मध्यप्रदेशराज्यस्य विकासाय महत्कार्यं कृतम् अस्ति । अतः इदानीं मध्यप्रदेशराज्यं भारतस्य विशिष्टराज्येषु अन्यतमं जातम् अस्ति । मध्यप्रदेशराज्ये उद्योगानां वृद्धिः अपि जायमाना अस्ति ।

स्वर्णिममध्यप्रदेशस्य लक्ष्यं मनसि निधाय 'आओ मध्यप्रदेश बनाए' इत्यनेन अभियानेन सः जनान् संयुक्तान् कुर्वन् अस्ति । २०११-१२ तमे वर्षे मध्यप्रदेशराज्यस्य विकासस्य मानं १० प्रतिशतात् अधिकम् अभवत् । कृषेः विकासस्य मानं १८ प्रतिशतं जातम् । मध्यप्रदेशराज्यस्य इतिहासे इदं प्रथमवारम् अभवत् ।

मध्यप्रदेशराज्यस्य योजनाः

शिवराज सिंह चौहान इत्याख्येन स्वस्य कार्यकालस्य आरम्भे अनेकानां योजनानां प्रारम्भः कृतः आसीत् । प्रतिवर्षं मध्यप्रदेशराज्यस्य विकासाय नूतनां योजनां योजयति । मध्यप्रदेशराज्यस्य विकासाय अस्य महत्वपूर्णं योगदानं वर्तते । अनेन याः योजनाः आरब्धाः तासां नामानि अधो लिखितानि सन्ति -

  • मुख्यमन्त्री युवा स्वरोजगार योजना
  • मुख्यमन्त्री कन्यादान योजना
  • मुख्यमन्त्री पेयजल योजना
  • मुख्यमन्त्री पिछडा वर्ग स्वरोजगार योजना
  • मुख्यमन्त्री मजदूर सुरक्षा योजना
  • मुख्यमन्त्री ग्राम सडक योजना
  • मुख्यमन्त्री आवास योजना
  • मुख्यमन्त्री अन्नपूर्णा योजना
  • मुख्यमन्त्री तीर्थ-दर्शन योजना
  • लाडली लक्ष्मी योजना

बाह्यसम्पर्कतन्तुः

फलकम्:Commons


फलकम्:मध्यप्रदेशराज्यस्य मुख्यमन्त्रिणः

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=शिवराज_सिंह_चौहान&oldid=2199" इत्यस्माद् प्रतिप्राप्तम्