शिखरिणीछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

शिखरिणी।

लक्षणम्

रसै रुद्रैश्छिन्ना यमनसभला ग: शिखरिणी।केदारभट्टकृत- त्तरत्नाकर:३. ९०

।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। । ऽ

य म न स भ ल ग।

यति: षड्भि: एकादशभि:च।

अस्मिन् छन्दसि सप्तदशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे क्रमेण एकः यगणः¸

एकः मगणः, एकः नगणः, एकः सगणः एकः भगणः एकः लघुः एकः गुरुश्च भवति तदेव शिखरिणीति वृत्तं कथ्यते ।

यतिस्तु षष्ठे द्वादशे च भविष्यति ।

उदाहरणम्

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः।
यदा किञ्चित् किञ्चित् बुधजनसकाशाद् अवगतम्

"तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

अर्थः

यदा अहम् अत्यल्पज्ञः आसम्, तदा मदेन उन्मत्तः गजः इव अहङ्कारेण अहमेव सर्वज्ञः इत्यविचारयम् ।

किन्तु विद्वत्सङ्गमात् यदा किञ्चित् किञ्चित् अवगतम्, तदा ज्ञातं यद् अहं तु मूर्खः अस्मीति ।

तथा च मम अहङ्कारः ज्वरः इव विनष्टः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शिखरिणीछन्दः&oldid=3278" इत्यस्माद् प्रतिप्राप्तम्