शाकाहाराः प्राणिनः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

ये शाकमात्रेण जीवन्ति, मांसं कदापि न खादन्ति, ते शाकाहाराः प्राणिनः यथा गौः ,महिषी, अजा।तेषाम् एतानि लक्षणानि -

  • १ दन्ताः पृथवः स्थूलाः च।
  • २ नखानि अतीक्ष्णानि।
  • ३ चर्वणम् कृत्वा अन्नं निगिरन्ति।
  • ४ हनुसन्धिः ऊर्ध्वं तथा अधः चलति, वामतः दक्षिणतः अपि चलति।
  • ५ जिह्वा मृदुस्पर्शा।
  • ६ जलपानकाले जिह्वा मुखाद् बहिः न आगच्छति।
  • ७ अन्त्रस्य दैर्घ्यम् अधिकम्म्।प्रायः शरीरदैर्घ्यस्य चतुर्गुणितम् अन्त्रदैर्घ्यम्। अतः भक्षितम् अन्नं प्रदीर्घ-कालेन देहाद् बहिः निःसरति।
  • ८ यकृत् तथा वृक्कौ इति एते अवयवाः ह्रस्वाः।
  • ९ जठरे हायड्रोक्लोरिक-अम्लस्य प्रमाणम् अल्पम्।
  • १० देहस्थितिः क्षारप्राया।
  • ११ नवजातस्य अर्भकस्य जन्मनः आरभ्य दृष्टिः अस्ति।
  • १२ स्वेदः अस्ति।
  • १३ नेत्रे अर्धवर्तुलाकारे स्तः।
  • १४ रात्रौ मन्दं पश्यन्ति, दिवा स्पष्टं पश्यन्ति।
  • १५ यूथं कुर्वन्ति।
  • १६ आघ्राणशक्तिः मन्दा।
  • १७ क्षुधाकुलाः चेत् अपि स्वशावकान् न खादन्ति।

"https://sa.bharatpedia.org/index.php?title=शाकाहाराः_प्राणिनः&oldid=9917" इत्यस्माद् प्रतिप्राप्तम्